________________ 18 विमलप्रभायां [लोकधातुद्वादशसाहस्रिकमिति / चतुरशीतिसहस्राधिकत्रिलक्षाक्षरसमूहं द्वात्रिंशदक्षरानुङ्गपा' (द्वात्रिंशदक्षरानुष्टुभः) द्वादशसाहस्रिकमिति। परमादिबुद्धमिति*। परमादिबुद्धाभिधेयवाचकत्वात्, अस्याभिधेयस्याभिधानस्वभावतयाऽवस्थितत्वादिति। परमादिबुद्धं कालचक्रम्, कालचक्राभिधेयवाचकत्वात् कालचक्राभिधानमिति / निरन्वयमिति। 0 निरन्वयाभिधेयवाचकत्वात् / इहान्वयः प्रज्ञापक्ष उपायपक्षश्च / सोऽन्वयो भिन्नपक्षो निरस्तो यस्मात् तत् तन्त्रं निरन्वयम् / प्रज्ञोपायात्मकं योगतन्त्रमित्यद्वयमुच्यते जिनेनेति / 10 इह प्रयोगा(प्रज्ञो)पायात्मकाभिधेये तन्त्रराजे प्रज्ञोपायपक्षभेदात् प्रज्ञोपायात्मकाभिधेयाभावो भवति', प्रज्ञोपायात्मकाभिधेयाभावात् अद्वयज्ञानाभावः, अद्वयज्ञानाभावाद् बुद्धत्वस्याप्यभावः', बुद्धत्वाभावात् संसार इति / इहाभिधानाभिधेयसम्बन्धेन विना प्रज्ञोपायात्मकोऽद्वययोगो वाच्यवाच[10a]कलक्षणो न भवति योगतन्त्र उपायनाम्नि / न च योगशब्द उपायार्थवाचकः प्रज्ञार्थवाचको वा / योगशब्दः प्रज्ञोपायार्थवाचक इति / / / तथा चाह "योगो नोपायकायेन नैकयाप्रज्ञया भवेत् / . प्रज्ञोपायसमापत्तिर्योग उक्तस्तथागतैः" // अतो यस्मिन् तन्त्रे प्रज्ञोपायात्मकोऽभिधेयो भवति, तत् तन्त्रं न प्रज्ञातन्त्रं नोपायतन्त्रं परमार्थतः। लोकसंवृत्या दशज्ञानादिभेदेन धातुस्कन्धविशुद्धितः, प्रज्ञोपायपक्ष उक्तो मृदुसत्त्वाशयवशात् तथागतेनेति। एवं योगिनीनाम्न्यपि / इह योगे शीलमस्या स्तीति योगी, एवं योगिनी च / अतो योगतन्त्रं योगिनीतन्त्रं च भवति, परापेक्षिकत्वा20 दिति / तस्मात् प्रज्ञोपायात्मकं तन्त्रं योगतन्त्रं निरन्वयं कालचक्रं परमार्थसत्यत इति / वज्रधरज्ञानकायसाक्षिभूतया नामसङ गीत्यालिङि गतमिति / आदिबुद्धाभिधानत्वात् / इह यथा नामसङ्गीतिरतीतानागतप्रत्युत्पन्नैस्तथागतैर्भाषिता भाषिष्यते भाष्यते तथादिबुद्धमपि / आदिशब्दोऽनादिनिधनार्थः। अनादिकाले अनादिबुद्धदेशितं देशयिष्यते देश्यत इति / नैकेन शाक्यमुनिना दीपङ्करतथागतेनापीति / अत्र वज्रपाणिराह "यातीतैर्भाषिता बुद्धर्भाषिष्यन्ते ह्यनांगताः। प्रत्युत्पन्नाश्च सम्बुद्धाः यां भाषन्ते पुनः पुनः // मायाजाले महातन्त्रे या चास्मिन् संप्रगीयते / महावज्रधरैइष्टरमेयमन्त्रधारिभिः " // इति / (ना० स० अ० 50 12,13) 25 1. क. ख. ग. घ. ङ. द्वात्रिंशदक्षरानुङ्गपा / 2-3. घ. पुस्तके इदं वाक्यं नास्ति / 4. क. ब्रह्मत्वस्या०। 5. घ. एकया। 6. घ. पुस्तके 'नोपायतन्त्र' इति नास्ति / **-*. भो. सुचन्द्रराजाध्येषितेन / परमादिबुद्धमिति / t. भो. द्वादशसहस्रमिति चतुरशीतिसहस्राधिकत्रिलक्षाक्षरसमूह द्वात्रिंशदक्षरानुष्टपाद् द्वादशसाहस्रिकमिति / निरन्वयमिति /