________________ पटले ] तन्त्रनियमोद्देशः 17 सनस्थः ; कायवाकचित्तज्ञानात्मको बँकारः, तेन वज्रसिंहासनस्थेन / बुद्धबोधिसत्त्वक्रोधराजदेवनागदेवतादेवीगणपरिवृतेनेति / बुद्धा अक्षोभ्यादयः, बोधिसत्त्वाः समन्तभद्रादयः, क्रोधराजा उल्ली(ष्णी)'षादयः, देवा ईश्वरादयः, नागा अनन्तादयः, देव्यो वज्रधात्वीश्वर्याद्याः, धर्मधात्वादयः, अतिनीलादयः, चचिका दयः, गौर्यादयः, श्वानास्पा(या)दयः; एषां समूहो गणः; तेन परिवृतो देवतादेवीगणपरिवृतः, तेन देवतादेवीगण- 5 परिवृतेनेति / त्रैधातुकवन्दितचरणारविन्देनेति / त्रैधातुकं कामरूपारूपम्, तेन वन्दितं चरणारविन्दं यस्यासौ त्रैधातुकवन्दितचरणारविन्दः, तेन त्रैधातुकवन्दितचरणारविन्देनेति / धातकचक्रवत्तिनेति / त्रैधातके धर्मचक्रं यगपद यस्य प्रवर्तते, असौ त्रैधातूकचक्रवर्ती, तेन त्रैधातुकचक्रवत्तिनेति / परमादिबुद्धेनेति / परमादिबुद्धः एकक्षणपञ्चाकारविंशत्याकारमायाजालाभिसम्बोधिलक्षणोऽक्षरसुखः परमः, तेनादिबुद्धः परमादिबुद्धः, 10 तेन परमादिबुद्धेनेति / निरन्वयेनेति / अन्वयः प्रज्ञोपायात्मको ग्राह्यग्राहकलक्षणो धर्मः, सोऽन्वयो निरस्तो येनाऽसौ निरन्वयः, तेन निरन्वयेनेति / कालचक्रभगवतेति / काल: परमाक्षरो महासुख(ल) क्षणः, तेनोत्पादितं निरावरणं स्कन्धधात्वादिकं चक्रं यस्य शरीरम्, असौ कालचक्रः। अन्यच्च, प्रत्येकैकैकाक्षरेण काकारो कारणे शान्ते लकाराच्च लयोऽत्र वै / चकाराच्चलचित्तस्य क्रकारात् क्रमबन्धनात् / / T 244 क्रमः कायादीनां बिन्दूनां च्यवनम्, तस्य बन्धः सहजसुखेनेति कालचक्रः / भगवतेति / मारक्लेशभञ्जनाद् भगः, सर्वज्ञैश्वर्यादिगुणसमूहः, स भगोऽस्यास्तीति भगवान्, तेन कालचक्रभगवतेति / सुचन्द्राध्येषितेनेति / शोभनश्चासौ चन्द्रश्चेति सुचन्द्रः, सर्वतथागतश्रोतृभूतः, वजेन्दु विमलप्रभः, सर्वसत्त्वभाषान्तरेण तथागतोक्तधर्माणां 20 संग्राहक [9b]त्वात् सर्वतथागतकर्णभूतः। गुह्याधिपतिः / गुह्यं श्रावकप्रत्येकयानयोरुत्तरं वज्रयानम् / तस्मिन् सङ्गीतिकारकत्वेनाधिपतिर्गुह्याधिपतिः, तथा बाह्ये लोकसंवृत्यो(त्या) गुह्यशब्देन ' यक्षास्तेषामधिपतिः गुह्यकाधिपतिः, अडकवतीनिवासी। बाह्ये अडकशब्देन नष्टप्राणो मृतकसमूहः, सोऽस्यामस्तीति अडकवती श्मशानभूमिः, तस्यां महायक्षाः सत्त्वानां विहेठका अनेकविध्नकर्तारः, तेषां वधकः / अडकवतीनिवासी- 25 ति। अटव्यां मृगाधिपतिरिव अडकवतीनिवासी महायक्षाधिपतिरिति / अध्यात्मनि अडक इति षट्शताधिककविशतिसहस्रश्वासप्रश्वासाना षत्रिशच्छतोनाना निरोधः सोऽस्यामस्तीति धर्ममेघाभूमिः, तस्या निवासी अडकवतीनिवासी / मारक्लेशज्ञेयसमापत्यावरणयक्षाणां वधको यक्षाधिपतिः। तथागतदेशितधर्मसिंहनादेन सर्वसत्त्वानां प्रत्येकरुतैर्धर्मप्रवर्तकः, तेन निर्मितकायेन वज्रपाणिना। सुचन्द्रराजाव्येषितेनेति ** | 30 1. क. उल्ली०; ख. उष्णी० / 2. ख. चचिका। 4. ख. वज्रन्द / 5. घ. गुह्यशब्देन उच्यते / 7. ख. ०राज्ञा०, घ. सुचन्द्राध्येषितेनेति / 3. ख. खलः / 6. ख. यक्ष्याणां /