________________ विमलप्रभायां [ लोकधातुअथेह मन्त्रयाने भगवतोक्तं योगिनां मांसभक्षणम्, तदेव प्राणातिपातेन सदा भवति / कदाचित् प्राणातिपातेन विनाशं (d) भवति / यदि भक्षको नास्ति वधकोऽपि न विद्यते / अतो भक्षकवधकयोः प्राणातिपातः स्यात् / इह प्रत्यहं समचतुष्टयं मन्त्रिणा कर्तव्यमिति तथागतनियमः। तत्सत्यम्, त(य)स्मात्' कारणानिमित्तसावद्येन प्राणाति5 पा[8b]तो भवति, तस्मात् कारणात् योगिनामनिमित्तं निरवद्यं गोकुलादिकं भक्ष्यं भगवतोक्तम् / इह यस्मिन् देशे यदभक्ष्यं यदविक्रयं लोकानां गोकुलादिकं स्वकर्मणा मृतं संग्रामे कुकर्मणि मारितं स्वदोषेण वा तस्करादिकं तत्सर्वं योगिनां भक्ष्यम् / तथागतेनोक्तम्-"न द्रव्यैः क्रीतं न पित्रादि-यज्ञादिकार्ये मारितं सनिमित्तं मांस भक्ष्यम्" इति / तथागतेनोक्तम्-“अथ प्रत्यहं समयचतुष्टयं यत् कर्त्तव्यम्, तन्निरवद्यैर्गोकुलादिभिः 10 पञ्चभिर्वैरोचनादिभिः पञ्चभिः सर्षपप्राणगुलिकाः प्रत्यहं समयसेवार्थ कर्तव्याः" / मद्यं स्त्री सदा निरवद्या भावनाय अमूर्छाधर्मेणोक्ता। मूलतन्त्रेऽपि भगवानाह, तद्यथा "देवस्वभयपित (त्रि)ष्टसिद्ध्यर्थं विक्रयाय च / नापराधी हतः सत्त्वो' दुर्दान्नैः पापकारिभिः / / सावद्यं तस्य तन्मांसं क्रीतं भुक्तं समीहितम् / अयाज्ञा(ञ्चा)पतितं पात्रे निरवद्यं तदेव हि // एकस्य प्राणिनो मांसं बहुभिर्भक्षितं वरम् / नानेकप्राणिनां मांसं मनुजेनकेन भक्षितम् // भोक्तव्यं योगयक्तेन करुणामुत्पाद्य तत्त्वतः।.. 20 . निर्विकल्पेन चित्तेन निरवद्यं नान्यदेव हि // कुलग्रहविनाशायान्नपानं च सर्वदा / अकशलाभिगमनं प्रोक्तं वज्रिणा तत्त्वदर्शिना // " इति / एवमुक्तक्रमेण नियमरहितानां बुद्धत्वफलप्रदं तन्त्रराजम् / बुद्धत्वं सर्वज्ञता-सर्वाकारज्ञता-मार्गज्ञता-मार्गाकारज्ञता-दशबल-वैशारद्यादिगुणविभूतयः, तां(ताः) ददातीति बुद्ध25 त्वफलप्रदम् / महासुखावास इति / महासुखावासो धर्मधातुराकाशलक्षणोऽसंकीर्णो धर्मो दयो लोकोपमामतिक्रान्तः समन्तभद्रो महासुखावासः। परमादिबुद्धवज्रधातुमहामण्डले निरन्वये ज्ञानज्ञेयैकलोलीभूते अच्छेद्येऽभेद्ये सर्वाकारधातुलक्षणे, आदर्शप्रतिसेनातुल्ये / तस्मिन् वज्रधातुमहामण्डले वसिंहासनस्थेन / वज्रसिंहासन (-)चन्द्रसूर्याग्निमण्डलमच्छेद्यमभेद्यम् / एकारो वा आकाशधातुर्वसिंहास[9a]नम्, तस्मिन् स्थितो वज्रसिंहा 1. ख. यस्मात् / 2. क. गोक्वादिकं; ख. गोक्ष्वादिकं; भो. Go Kul La Sogs Pa (गोकुलादिक) अयं तु सर्वत्र। 3. ख. दि०। 4-5. क. हतत्सत्त्वो; ख. हतः सत्त्वो। 6. ख. धातुमहामहामण्डले / 7. क. सन; ख. सनं /