________________ पटले ] तन्त्रदेशनोद्देशः ___अत उक्तादनेन क्रमेण पञ्चपटलस्वभावतयाऽवस्थितः कालचक्रो भगवानत्राभिधेयः' / अस्य प्रतिपादकं (:) पटलसमूहं (:) तन्त्रराजमभिधानम् / अनयोरभिधेयाभिधानयोः परस्परं वाच्यवाचकलक्षणः सम्बन्धः / वाच्यो भगवान् कालचक्रः पञ्चपटलस्वभावतयाऽवस्थितः, वाचकं कालचक्रमभिधानं पञ्चपटलात्मकम् / अथ आदिबुद्धो भगवान् वाच्यः / वाचकमादिबुद्धमभिधानमिति वाच्यवाचकलक्षणः / अभिधेयाभिधान- 5 सम्बन्धः। अतो मण्डलप्रवेशाल्लौकिकाभिषेकदानेन पुण्यसम्भारार्थकरणं प्रयोजनम्, महाप्रज्ञाचतुर्थलोकोत्तराभिषेकदाननिरन्वयमहामुद्रासिद्धिलाभाय पुण्यज्ञानसम्भारार्थकरणं प्रयोजनप्रयोजनमिति / एतान्येवाभिधेयलक्षणान्यभिसंवीक्ष्य वैनेयजनानां नियमरहितानां स्वचित्ताभिप्रायेणेति। नियमः श्रावककोटिसंवरः पञ्चकामोपभोगरहितः शीलसंवर इति, तेन 10 रहिता नियमरहिताः, तेषां स्वचित्ताभिप्रायः पञ्चकामोपभोगाभिलाषः, तथा द्वीन्द्रियेण महासुखाभिलाष इति स्वचित्ताभिप्रायो नियमरहितानामिति / अनेन [8a] स्वचित्ताभिप्रायेणेह जन्मनि बुद्धत्वफलप्रदमिति / इह जन्मनि मनुष्यजन्मनि बुद्धत्वफलप्रदं तन्त्रराजम्, न पुनर्देवादिपञ्चगतिषु जन्मनि, तत्कस्य हेतोः ? अकर्मभूमिजातित्वादिति / इह देवादीनामपि मनुष्यजन्मलाभाद्२ बुद्धत्वफलप्रदं भविष्यतीति नियमो भगवतः / 15 पुण्यज्ञानसम्भाराभ्यां षड्धात्वात्मकेन महापुरुषपुङ्गवेने ति / न चान्यथा कुकर्मणि मनुष्यजन्मनीह बुद्धत्वफलप्रदं भविष्यतीति नियमस्तथागतस्य / अथास्मिन् मन्त्रयाने बुद्धभगवतोक्तम्, तद्यथा "चण्डालवेणुकाराद्याः पञ्चानन्तर्यकारिणः / . जन्मनीहैव बुद्धाः स्युमन्त्रचर्यानुचारिणः" / / इति भगवतो वाक्यं सत्यम् / इह जन्मनि यत् प्राकृतं पञ्चानन्तर्यादिकं रौद्रं कर्म तदस्मिन् मन्त्रयाने महामुद्राक्षरसुखसमाधिना ध्वंसयित्वाऽपरागन्तुकाकुशलाप्रवेशाय वज्रधर्मोदयगृहे चतुर्मारविघ्नादिप्रवेशद्वारेषु मैत्रीकरुणामुदितोपेक्षादिबोधिपाक्षिक'. धर्मकपाटं दत्वा तत्र वज्रसत्त्वं साधयित्वा महामुद्रया सार्द्ध पञ्चानन्तर्यकारिणोऽपीह जन्मनि बुद्धत्वफललाभिनो भवन्तीति तथागतनियमः, न पुनमन्त्रयाने प्रविष्टाः सन्तः 25 पञ्चानन्तर्यादिकं रौद्रं कर्म कुर्वन्तोऽपीह जन्मनि बद्धत्वफललाभिनो भवन्तीति तथागतसम्मतम् / इह यानत्रयेऽपि भगवतो वाक्यम्-"आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम्' इति भगवतो वचनात् / न मन्त्रयाने प्रविष्टाः सन्तः पापं कर्म कुर्वन्तोऽपि बुद्धत्वफललाभिनो भवन्तीति तथागतनियमः। 1. ख. भिधेयः / 2. ख. पुस्तके नास्ति / 3. क. पुङ्गलेन; भो. Gan Zag (पुङ्गव)। 4. ख. सिद्धम् / 5. क. पुस्तके 'दिबोधिपाक्षिक' इति नास्ति / 6. घ. पुस्तके 'न' इति नास्ति / भोटानुसारमपि 'न' पाठः समीचीनः /