________________ विमलप्रभायां [लोकधातुणीव विष्णुमि(रि)व देवदत्तादिकं बन्धयन्ति, न स मायापुरुषोऽनेकः; एवं बुद्धबोधिसत्त्वानां मायानिर्माणकार्यस्त्रिभवे सत्त्वार्थ इति / तेन सर्वसत्त्वानां लौकिकलोकोत्तरधर्मदेशनाय बुद्धो भगवान् प्राक् द्वादशभूमीश्वरो महामायाधरो विद्वान् महामायेन्द्रजालिकः, आर्यविषयलुम्बिन्यां शाक्यकुले शुद्धोदननरेन्द्रस्य महामायादेवीकुक्षिसम्भूतः, सिद्धार्थकुमार इति / सम्भलविषयेऽपि कलापग्रामे सूर्यप्रभस्य विजयादेवीगर्भसम्भूतो दशभूमीश्वरो वज्रपाणिः सुचन्द्र इति / बुद्धो भगवान् बुद्धक्षेत्रे लौकिकलोकोत्तरधर्मदेशनार्थं शाक्यमुनिर्जातो द्वादशभूभी (मिः) साक्षात्कृतेति। शीताना त्तरे सुचन्द्रवैनेयानां षण्णवतिकोटिग्रामनिवासिनां परमादिबुद्धतन्त्रराजेन सम्यक्सम्बुद्धमार्गलाभाय सुचन्द्रो राजाऽभूत् बोधिसत्त्वो वज्रपाणिरिति / अनयोबुद्धबोधिसत्त्वयोदशकाध्येषकसम्बन्धो 10 निर्माणकायैः सम्भोगकायैर्वा पूर्वापराविरोधतः / तेन निर्मितकायेन वज्रपाणिना सुचन्द्र राज्ञा सर्वसत्त्वानां लौकिकलोकोत्तरसिद्धिसाधनाथ तथागतोऽध्येषितः। तथागतेनापि शीतानद्युत्तरे सम्भलादिविषयेषु षण्णवतिकोटिग्रामनिवासिनामासन्नभव्यता. . चित्तविशुद्धि दृष्ट्वा वज्रपदमुद्घाटनरहितं' वज्रपदप्रकाशकं द्वादशसाहस्रिकं परमादिबुद्धं सन्देशितम् / अस्मात् द्वादशसाहसिकतन्त्रराजात् लघुतन्त्रकरणाय, मूलतन्त्रराजदेश15 नाय च अनागतेऽध्वनि सार्द्धत्रिकोटीनां ब्रह्म-ऋषीणां परिपाकं दृष्ट्वा. षण्णवतिकोटि ग्रामनिवासिनां च तथागतेन मञ्जुश्रीाकृतो वज्र[14a]कूलाभिषेकेण सर्ववर्णानामेककल्ककरणाय यशः कल्कीति / अहमपि टीकाकारः पुण्डरीको द्वितीयः कल्की व्याकृतः / अतो मम (त्तः) पश्चात् यमान्तकादयो व्याकृता इति / अत्र भगवानाह "आद्याब्दात् षट्शतैर्वः सम्भलाख्यो भविष्यति / ऋषोणां पाचनार्थाय मञ्जुघोषो यशो नृपः // , .. अस्य तारा महादेवी पुत्रो लोकेश्वरोऽब्जधृक् / सुचन्द्र तव' वंशे मे शाक्यवंशसमुद्भवे / / वाग्मी वज्रकुले येन तेन वज्रकुलो यशः / चतुर्वर्णैककल्केन कल्की ब्रह्मकुलेन न // ' एवं मया श्रुताऽनेन ऋषिणां धर्मदेशना / परश्रुतान्न सर्वज्ञ इति वादो भविष्यति / / येन येन प्रकारेण सत्त्वानां परिपाचनम् / तेन तेन प्रकारेण कुर्याद्धर्मस्य देशना(म्)५ // योगी शब्दापशब्देन धर्म गृह्णाति यत्नतः / देशशब्देन लब्धेऽध्वे (\) ' शास्त्रशब्देन तत्र किम् / / 1. क. वज्रपदानुद्घाटनरहितं / 2. भो. Lo hDi nas (अद्याब्दात्) / 3. घ. तद् / 4. क. च. भो. Min (न)। 5. ख. नाम् / 6. भो. Don (अर्थ)-यद्यपि विभिन्नपुस्तकेषु 'अवे' इति पाठो दृश्यते तथापि सार्थकत्वात् भोटे च उपलब्धत्वात् 'अर्थे' इत्येव समीचीनम् /