________________ विमलप्रभायां [लोकधातु (2) तन्त्रदेशनोदेशः इह प्रथमं तावन्मूलतन्त्रा'नुसारेणाभिधेयाभिधानसम्बन्धादिकं लघुतन्त्रादिव्याकरणमुच्यते, पश्चाल्लघुतन्त्रे प्रयोजन-प्रयोजनादिकञ्चेति / इह प्रथमं तावदभिधेयाभिधान-सम्बन्ध-प्रयोजन-प्रयोजनप्रयोजनान्यभिसंवीक्ष्य वैनेयजनानां नियमरहितानां [5b] स्वचित्ताभिप्रायेणेह जन्मनि बुद्धत्वफलप्रदम् / महासुखावासे परमादिबुद्धवज्रधातुमहा5 मण्डले वज्रसिंहासनस्थेन बुद्धबोधिसत्त्वक्रोधराजदेवनागदेवतादेवतीगणपरिवृतेन त्रैधातु कवन्दितचरणारविन्देन त्रैधातुकैकचक्रवर्तिना परमादिबुद्धेन निरन्ध(न्व)येन' श्रीकालचक्रभगवता सुचन्द्राध्येषितेना द्वादशसाहस्रं परमादिबुद्धं निरन्वयं कालचक्रं तन्त्रराजं* वज्रधरज्ञानकायसाक्षिभूतया नामसङ्गीत्यालिङ्गितं सर्वतन्त्रेषु वज्रपदसाक्षिभूतम्, उद्घाटितबुद्धरत्नकरण्डकम्, लौकिकलोकोत्तरसत्याधितं चतसृभिः सम्बोधिभिश्चतुर्वज्रः 10 परिशद्धं चतुःकाय-षट्कूल-द्वादशसत्य-षोडशतत्त्व-षोडशशून्यता-षोडशकरुणात्मकाभिधेय वाचकम्, लौकिकदशलोकोत्तरेकादशाभिषेकप्रकाशकम्, कर्ममुद्रा-ज्ञानमुद्रा-महामुद्रालौकिकलोकोत्तरसिद्धिप्रकाशकम्, लोकधात्वध्यात्माभिषेकसाधनज्ञानपञ्चपटलात्मकम, पञ्चकल्पात्मकं वा, नरादिसकलसत्वानां सम्यकसम्बुद्धत्वलाभाय* सन्देशितम् / अतो लघुतन्त्रसङ्गीतिकरणाय मञ्जश्रियस्तथागतव्याकरणम्, अनागतेऽध्वनि ब्रह्म-ऋषीणां 15 वैनेयार्थं मम टीकाकरणाय च, अन्येषां यमान्तकादीनां तन्त्रदेशनार्थम्, सम्भलविषयादिषवति-(षण्णवति) कोटिग्रामनिवासिनां सर्वसत्त्वानां च मार्गलाभायेति / / इह परमाणुसन्दोहपूर्वङ्गमो लोकधातुः, लोकधातुपूर्वङ्गमाः सत्त्वाः, सत्त्वपूर्वङ्गमोऽभिषेको लौकिकलोकोत्तरश्च, अभिषेकपूर्वङ्गमं पुण्यसम्भारं मण्डलचक्रभावनाभ्या समकनिष्ठभुवनपर्यन्तं लौकिकसिद्धिसाधनम्, लौकिकसिद्धिपूर्वङ्गमं पुण्यज्ञानसम्भाराभ्यां 20 पूर्वजन्मशून्यताकरुणासंवृतिनिरालम्बवासनाबलेन परमाणुसन्दोहातीतं मण्डलादिविकल्प [6a] भावनारहितं महाज्ञानमुद्रासिद्धिसाधनमिति / अतः प्रथमो लोकधातुकल्पः, ततोऽध्यात्मकल्पः, ततोऽभिषेककल्पः, ततो लौकिकसिद्धिसाधनाकल्पः, ततः परमाक्षरज्ञानसाधनाकल्पः। एवं यथानुक्रमेण पञ्चकल्पात्मकं तन्त्रराज पञ्चपटलात्मकं वा / अनु (अत्र) प्रज्ञोपायात्मको वज्रयोग आदिबुद्धो निरन्वयः 25 कालचक्रो भगवानभिधेयः। स चानया पञ्चपटलस्वभावतयाऽवस्थितः। लोकधातुपटलः। प्रथमं तावल्लोकधातुपटल: सर्वज्ञेत्यादिदेशकस्वभावतयाऽवस्थितः, स्थाननिर्दशस्वभावतयाऽवस्थितः, महापर्षत्सम्पत्स्वभावतयाऽवस्थितः, अध्येषकस्वभावतयाऽवस्थितः, वज्रयोगाभिधेयाभिधानप्रयोजनप्रयोजनादिपृच्छास्वभावतयाऽव 1. क. घ. ऊ. मन्त्रा० / 2. ख. च. ०संवीक्ष्य; क. संबोध्य / 3. क. निरन्धयेन / 4. क. निरन्धयं / 5. ख. संबुद्धलाभाय / 6. ख. दिषण्णवति / 1-* भो. (सुचन्द्राध्येषितेन परमादिबुद्धं द्वादशसाहस्रनिरन्वयं कालचक्रतन्त्रराज)।