________________ पटले] T241 सन्मार्गनियमोद्देशः येषां मार्गो विनष्टोऽनृततमसि सदा मारसङ्गैर्गतानां तेऽनेनायान्त्वदूरं कुलिशमणिगृहं लब्धमार्गेण पुंसाम् / द्वात्रिंशल्लक्षणाङ्गो गुरुरिह जगतः संस्थितो धर्मचक्रे देवानां मौलिचडामणिकरनिकरैश्चुम्बितः पादपद्मः / सन्मार्ग दर्शय॑)मानो दिवसकर इव ध्वस्तसन्धिकारो ध्यात्वा धूमादिमार्गः सहजसुखपदं कालचक्रो भवेत् सः॥ यो देवाहिनरासुरेन्द्रमुकुटैः संघृष्टपादाम्बुजः सम्यग्ज्ञानदिवाकरस्त्रिजगतः श्रीधर्मचक्रे स्थितः / मारक्लेशमृगप्रचण्डवधकः श्रीशाक्यसिंहः सदा टीका तत्कृपया लिखामि जगतस्तत्प्रज्ञया चोदितः // ककारात् कारणे शान्ते लकाराच्च लयोऽत्र वै। चकाराच्चलचित्तस्य क्रकारात् क्रमबन्धनात् // कालोऽक्षरसुखज्ञानमुपायः करुणात्मकः / ज्ञेयाकारं जगच्चक्रं श्री(:) प्रज्ञा शून्यतात्मिका // अस्य श्रीकालचक्रस्य वज्रयोगस्य सर्वतः। सत्यद्वये स्थितस्यास्याभिधानं वाचकं भवेत् / / अस्मिन् तन्त्रे मया टीका सुगतव्यांकृतेन वै। दितेनैव लोकनाथेन लिख्यते // बालपण्डितमूर्खाणां तन्त्रे गुह्यप्रकाशिका / हिता मातेव पुत्राणां सुखार्थं सर्वदेहिनाम् // सन्मार्ग बज्रसत्त्वस्य यया' विन्दन्ति योगिनः / तस्मात् सा लिख्यते क्षिप्रं टीकेयं विमलप्रभा / इति मूल तन्त्रानुसारिण्यां द्वादशसाहस्रिकायां लघुकालचक्रतन्त्रराजटीकायां विमलप्रभायां सकलमारविघ्नविनाशतः परमेष्टदेवतासम्मार्गनियमोहेशः३ प्रथमः // 1 // 2. वा. शूल। 3. भो. mDor bsDus pa Chen po 1. क. मया / (महोद्देशः)।