________________ पटले ] तन्त्रदेशनोद्देशः 13 स्थितः, पञ्चाक्षरमहाशून्यादिविश्वो(बिम्बो)त्पादमण्डलाभिषेकाध्येषणस्वभावतयाऽवस्थितः, देशकप्रतिवचनस्वभावतयाऽवस्थितः, लोकधातुमन्त्रग्रहनक्षत्रसत्त्वप्राणाधुत्पादसंग्रहस्वभावतयाऽवस्थितः, वाय्वादिमण्डलसमुद्रद्वीपशैलसंख्यास्वभावतयाऽवस्थितः, मञ्जुश्रीव्याकरणस्वभावतयाऽवस्थितः', एकत्रिंशद्भवस्वभावतयाऽवस्थितः, महाचक्रवर्ग्युत्पादस्वभावतयाऽवस्थितः, सूक्ष्मतरादिश्वासदिनमानादि स्वभावतयाऽवस्थितः३, सिद्धान्तकरण- 5 ज्योतिर्गणितस्वभावतयाऽवस्थितः, मध्यनाडीश्वासेभ्यो ग्रहचरणजन्मनक्षत्रचरणस्वभावतयाऽवस्थितः, द्वादशाकारराशिपृथ्वीगोलकस्वभावतयाऽवस्थितः, स्वरोदयादिस्वभावतयाऽवस्थितः, राहादिभूमिबलस्वभावतयाऽवस्थितः, दुर्गभेदरक्षणयन्त्रस्वभावतयाऽवस्थितः, चक्रवत्तिद्वादशभूमिखण्डभ्रमणस्वभावतयाऽवस्थितः म्लेच्छधर्मोत्पाटनबुद्धधर्मप्रतिष्ठापनस्वभावतयाऽवस्थितः, सकलसत्त्वानां लौकिकलोकोत्तरसिद्धिमार्गदानस्वभावतयाऽवस्थितः, 10 मञ्जुश्रीलोकेश्वरपृष्ठाग्रतो देशकस्वभावतयाऽवस्थितः, महाचक्रवर्त्यादिकल्किपर्यन्तं नराणां परमायुःस्वभावतयाऽवस्थितः / / इति लोकधातुपटले // ततोऽध्यात्मपटले प्रथमं गर्भाधानसं(6b)ग्रहस्वभावतयाऽवस्थितः, रजः. शुक्ला (क्रा)लयविज्ञानज्ञान संयोगस्वभावतयाऽवस्थितः, प्रत्येकैकमासेन गर्भोत्पादस्वभावतयाऽवस्थितः, मत्स्यादिदशावस्थास्वभावतयाऽवस्थितः, चतुःकाय भावतयाऽवस्थितः, चतसृभिः सम्बोधिभिः गर्भोत्पत्तिस्वभावतयाऽवस्थितः, षट्शताधिकैकविंशतिसहस्रश्वास - (द्वा)सप्तति नाडीसहस्र-षष्ठो (ष्ठ्यु) 'त्तरत्रिशत सन्धिप्रदेशषड्धातु-षड्रस-पडिन्द्रिय-षड्विषय - षट्कर्मेन्द्रियविषय-षड्विज्ञान-षट्संस्कार-षड्वेदनाषट्संज्ञा-षड्प - षड्ज्ञान - षट्चक्र-षण्मण्डलाध (ऊ) (+) "स्वभावतयाऽवस्थितः, नाभ्यब्जा' दिदलेष नासारन्ध्रयोः पञ्चस्कन्ध-पञ्चधात-वामसव्यमण्डलप्रवाहस्वभावतयाऽवस्थितः, मध्यमायां सकलतन्त्रनिर्गमस्वभावतयाऽवस्थितः, प्राणादिवायुस्वभावतयाऽवस्थितः, धातुभ्यो देवताचिह्नोत्पादस्वभावतयाऽवस्थितः, चन्द्राग्न्यिरिष्टस्वभावतयाऽवस्थितः, कर्मविपाकषड्गतिषूत्पादस्वभावतयाऽवस्थितः, नाडिकादिग्रहणचरणच्छेदस्वभावतयाऽवस्थितः। एवं मध्यमाप्रवेशानन्दादिभिररिष्टमरणवञ्चनस्वभावतयाऽवस्थितः, बाह्यलौकिककार्यसाधनस्वभावतयाऽवस्थितः, सर्वदर्शनानुमानपरीक्षास्वभावतयाऽवस्थितः, नानासत्त्वानुमतधर्मप्रतिष्ठानस्वभावतयाऽवस्थितः / इत्यध्यात्मपटले। ततोऽभिषेकपटले प्रथम गुरुपरीक्षास्वभावतयाऽवस्थितः, उत्तमाधममध्यमशिष्यपरीक्षासंग्रहस्वभावतयाऽवस्थितः, कर्मप्रसरसाधनाय ग्रामादिदिशि'(वि)भागभूम्यादिलक्षणस्वभावतयाऽवस्थितः, कुण्डहोमद्रव्याक्ष सूत्रासनकीलककलसरजःसूत्रयन्त्रन्यास गयचतत T242 1. च. पुस्तके अयमंशो नास्ति / 2. च. दिनमान। 3. ख. अत्र 'मञ्जश्रीव्याकरणस्वभावतयाऽवस्थितः' इत्यंशस्य पाठः पुनरागतः, तद्धि भोटे नास्ति / 4. क. रजं / 5. भो. अयं नोपलभ्यते / 6. ख. घ. च. द्वा / 7. भो. अयं नोपलभ्यते / 8. ख. ०ष्ठयु० / 9. ख. च. त्रिशत० / 10-11. ख. ऊर्ध्व / 12. ख. ०ङ्गा। 13. ख, दिग्वि०। 14. ख, 00 /