________________ विमलप्रभायां [ लोकधातुसुप्तोऽपि सर्पदष्टो न जीवति शुक्त(क्र)'संग्रहाभावात् / यद्वत्तद्वद्दष्टस्तपस्पतेनावलायोन्या (यद्वत्तद्वद्भ्रष्टस्तपस्पतिखलायोन्याः)* दग्धं शिखिनैव शिलावल्कलसूत्रांशुकं भवति शुद्धम् // यद्वत्तद्वत्पुंसां प्रज्ञाज्ञानेन सच्चित्तम्। अग्निस्पर्शात् सूतः प्रपलाप(य)ति नाचलो भवति यद्वत् // तद्वयोनिस्पर्शाच्छुक्रं ह्यनयापि नो (ह्यनुपायिनो) नित्यम् / औषध्यादिबलेन चलोऽपि संबध्यतेऽग्निसम्पर्कैः / / यद्वत्तद्वत् प्रज्ञासम्पर्कैः शुक्रमतियोगैः / काष्ठस्थोऽपि सदाग्नि[3 a]र्न दृश्यते छेदभेदनोपायैः / / सरकाणु(अरणि) 5 मथनात्तत्स्थो स दृश्यते यद्वत् / तद्वच्चित्ताभासो न दृश्यते कल्पभावनोपायैः / / तत्रैव दश्यतेऽसी ललनारसनैकयोगेन। . मार्गरहितो न तत्त्वं प्राप्नोति तथागतेन यत् प्रोक्तम् / / षोडशचतुःप्रभेदं विविधविकल्पादिमार्गेण / उत्पत्तिक्रममुक्तं हूँफटकारादिकल्पनारहितम् / / उत्पन्नक्रमयोगस्तत्त्वं तत्त्वस्य साधनं नान्यत् / धूमादिनिमित्तेन प्राणायामेन' मध्यवाहेन / विद्याव्रतेन वज्रपातेनैवोर्ध्वशुक्रण / मार्गेणानेन सुखं योगी प्राप्नोति सर्वबुद्धानाम् // परमाक्षराभिधानं सहजं वा सर्वदूतीनाम् / रूपादिसंकल्पनैर्मण्डलचक्रादिभावनाभ्यासैः / सिध्यति लौकिकसिद्धिः किं पुनरिष्टा महासिद्धिः // मार्गः सद्गुरुप्रसादतो भवति शुद्ध(ः) शिष्याणाम् / येषां सत्त्वेषु कृपा परकार्यशुभोद्यमो नित्यम् // . 1. ख. शुक्ल / २.ख. सचित्तम् / 3. भो. Thabs dan Bral bahi Khuba (ह्यनुपायिनो)। 4. क. वलोऽपि; भो. hGro ba de yan (चलोऽपि)। 5. ख. ङ. सरकाण्ड; भो. gTsub singTsub stan (अरणि)। 6. ख. ङ. स्थोऽपि / 7. घ. प्रभेदतो। 8. ङ. प्राणायात्मेन / * विभिन्नप्रतीषु भ्रष्टपाठ एवातो यथासम्भवं पाठो दीयते /