________________ पटले] सन्मार्गनियमोद्देशः अन्यस्मिन् विषये प्रवृत्तिरखिलाऽसत्खानपानादिके चित्तं तेन विडम्बितं हतसुखं षड्जन्मसु भ्राम्यते // शब्दाशब्दविचारणा न महती सर्वज्ञमार्गार्थिनाम् नानादेशकुभाषयाऽपि महतां मार्गे प्रवृत्तिः सदा / सत्त्वानामधिमुक्तिचित्तवशतः सर्वज्ञभाषा परा अन्या व्याकरणे सुराहिरचिता शब्दादिवादार्थिनाम् / / अपशब्दादर्थमपि योगी गृह्णाति देशभाषातः / तोये . पयो निविष्टं पिबन्ति हंसास्तदुद्धृत्य // परमार्थतत्त्वविषये न व्यञ्जनस(श)रणता सदा महताम् / * देशसंज्ञाभिरर्थे ज्ञाते किं शास्त्रशब्देन / ज्ञानं तदेव भवति उदिते (उक्ता) यस्यापशब्दशब्दाः* स्युः / सर्वज्ञस्य न भाषा या सा प्रादेशिकी जगति // परमाक्षरं चतुर्थ प्रज्ञाज्ञानं तदेव बुद्धानाम् / यत्तत्पुनस्तथ्यं स्वमहामुद्रा जिनेनोक्ता / / क्षरति प्रज्ञासङ्गे यस्य सितं तस्य केन सुखवृद्धिः / मुकुलं वसन्तसङ्गे पतति फलं केन चूतस्य / येनाक्षरं न लब्धं स क्षरं सौख्यं समीहते दुःखी / सर्वो मृगप(य)ति' तोयं तृषितोऽपि न वा(चा)तको भूस्थम् / / संसारसुखमनित्यमप्राप्तमपीहते महामूर्खः३ / साम्राज्यसुखं प्राप्तं (प्तो) विद्वान् संत्यजति मोक्षाय / / वर्षावधेः कदाचित् सुरततिं मृगप(य)ति मृगाहारी / पाषाणकणाहारी नित्यं पारावतः कुरुते / / उभयोस्तु न परमसुख (-) सकृत् सदा शुक्रपाततो यद्वत् / तद्वत्तपश्चि(स्व) कामुकयोः स्वप्नजाग्रतोः क्षरणात् // 1. ख. मृगपति / 2. ख. वातको / 3. क. महासुखः / 4-5. क. सुकृत् अनन्तरं सदा। अपशब्दश्च शब्दश्च इति अपशब्दशब्दाः इति व्युत्पत्तिः भोटानुरोधेन कर्तव्या; एतेन अपशब्द-शब्दाभ्यामुभाभ्यामपि समानमेव ज्ञानं न भवति इति अर्थः स्फुटो भवति / शब्दः कञ्चिदपि न विषयं करोति इति भावः; यद्यपि 'क'. पुस्तके 'शब्दः शब्दाः' इति पाठः। 20