________________ 248 विमलनभायां [अध्यास वासं कृत्वा सुपुष्पैः कतिपयदिवसैर्गन्धतोयेन मिश्रं अश्रा(स्रा)वे मृत्कपाले दृढपिहितमुखे वेष्टिते सिक्थवस्त्रैः / कृत्वा विस्तीर्णभाण्डे त्वथ धरणितले पूरिते वालुकाभिः / पक्वं षण्मासयोगाद्भवति जलगतो नाभिभर्ता सगन्धः // 144 // ततो वासं कृत्वा दशदिनं सुपुष्पैः यावद्धृपदोषोपस(श)मो भवति / गन्धतोयेन मिमिति पूर्वविधिना प्रत्यहं गन्धतोयं काथयेत. शीतोदकं न दद्यात। शीतोदकेनाम्लो भवति, तेन गन्धतोयेन मिश्रं मन्धं कृत्वा अधा(ना)वे मृत्कमाले बाह्यसिल्क(स)वस्त्रेण वेष्टिते दृढपिहितमुखे तदेवापरे विस्तीर्णे भाण्डे जा[147b]तिकायामथ' धरणितले, अस्याभावे तस्मिन् भाण्डे प्रक्षिप्य उपरि वालि(लु)कां दद्याद् यावद्भाण्डं कण्ठपर्यन्तं पूरितं भवति / तत्र वालि(लु)काभिः पूरिते भाण्डे सामान्यमुदकं सूर्यतप्तं देयम्, तदेव भाडं सूर्यतापे स्थापयेत् षण्मासं यावत् / एवं पकं षण्मासोपयोगासवति जलगतो नाभिभर्ना गन्ध इति गन्धराजनियमः। इदानीं पुष्पतैलार्थ गन्धतैलाय च तिलशुद्धिरुज्य(च्य)ते कृस्वेत्यादि कृत्वा शुद्धिं तिलानां क्वथितदलजलैधुपलेपादिभिश्च 15 पश्चाज्जात्यादिपुष्पैः कतिपयदिवसं वासयेद् यावदिष्टम् / यन्त्रे तैलं गृहीत्वा नृप निपुणतया स्थापयेत् काचभाण्डे स्नाने वाऽभ्यङ्गने वा भवति मदकरं पुष्पतैलं ह्यपक्वम् // 145 // इह तिलान् परिपक्कान् नवान् संगृह्य कथितवलजलैरिति दलान्याम्रपवाणि, एवं जम्बू-कपित्थ-मातुलुङ्ग-विल्वानां पञ्चवृक्षाणां पत्राणि, तैः कथितं जलं तैर्दलजलैर्मवंगित्वा 20 तिलानां तुषा पनयनं प्रथमशुद्धिः। ततो जालायन्त्रोपरि वस्त्रं दत्वा, तदुपरि तिलान परभाण्डे पिहित्वा धूपयेत्, द्वितीया शुद्धिः / लेपाविभिरिति त्रिफलैर्लेपो देयो गन्धतोयेन पिष्टैः, आदितः सूर्यरश्मिभिः शोषयेत् / एवं तिलावां शुद्धि कृल्या पञ्चा(श्का)ज्जाव्यादिपुष्पैः कतिपयविवसं पक्षं वा दशदिनं वा निरन्तरं वासयेद् यावन्मदितानां कासितः पुष्पगन्धमद्वहति, तत इष्टं वासनं भवति। ततः कोलाल्लोकयन्त्रण तैलंगहीत्वा. नम 25 इत्यामन्त्रणम्, निपुणतया काचभाण्डे स्थापयेत् / तत् तैलं स्नाने वाऽभ्यङ्गने वा भवति मदकरं पुष्पतैलं हपक्वमिति / अथ पकतैलं कर्तुकामः, तदा तवेब तैलं समतोयेन सुगन्धेन काथयेद् यावत् तैलं फेनं मुञ्चति / ततोऽवतारणकाले अष्ट्रांशेन गन्धद्रव्यं गन्धोदकेन पिष्टवा देयम्, पश्चादवतारयेद् यावत् शीतलं भवति / ततः कस्तूरिकाद्यैर्वेध दत्वा काचभाण्डे स्थापयेत् / तदे[148a]व मदासवेन पादांशेन मिश्रितं लाक्षाभाण्डे 1. क. कामामध, ग. जाडिकायामथ / 2, क. तुला / 3. ग. यावतादितानां; भो. bsGos ParNams (वासितानां)।