SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पटले ] . रसायनादिबालवन्धमहोद्देशः 241 सूयंतापैः सप्ताहं तप्तं कस्तूरिकातैलं भवति / वेणुकनलिकायां पक्वं सूर्यपाकं भवति; एवं विलेपनाद्यं वेणुकनलिकायां पक्वं दिव्यविलेपनं भवति नाभ्यादिभिर्विद्धम् / एवं नानाविधं गन्धशास्त्रोक्तं गन्धादियोगं कारयेत् / अत्र संक्षेपत उक्तं भगवतेति गन्धयुक्तिनियमः। इदानीं गुर्विणीनां प्रसवनार्थं सर्वतश्चतुस्त्रिशतिकं यन्त्रमुच्यते भूभूवित्यादिना-5 भूभृत्सूर्येन्दुमन्वक्षिमदनवसवो रुद्रराजाग्नयश्च दिग्भूता रन्ध्रषटकं तिथिजलनिधयः स्थापनीयाश्च कोठे / संख्याकोष्ठेश्चतुभिर्जलनिधिशिखिनो लेखयित्वा समस्तं श्रीचक्रं.मानपृष्ठे प्रसवनसमये दर्शयेद् गुर्विणीनाम् / / 146 // इह यदा गुर्विणीनां प्रसवनकाले गर्भस्तम्भनं भवति बाह्यदूतीदोषेण, तदा इदं 10 यन्त्र मानपृष्ठे लिखेत्; मानमित्याढकम् ;तस्य पृष्ठे षोडशकोष्ठकान् कृत्वा प्रथमकोष्ठे भूभृत सप्त, द्वितीये सूर्य द्वादश, तृतीये इन्दुरित्येकम्, चतुर्थे मनुश्चतुर्दश, पञ्चमेऽक्षि द्वौ, षष्ठे मदनेति त्रयोदश, सप्तमे वसवोऽष्टौ, अष्टमे रुद्र एकादश, नवमे राजानः षोडश, दशमेऽग्नय इति त्रयः, एकादशे विगिति दश, द्वादशे भूता इति पञ्च, त्रयोदशे रन्ध्रा इति नव, चतुर्दशे षट्कमिति षट्, पञ्चदशे तिथिरिति पञ्चदश, षोडशे जलनिधय 15 इति चत्वारः; स्थापनीयाश्च कोष्ठे'षोडशे / एषामङ्कानां चतुःकोष्ठे स्थितानां संख्या एकपिण्डितं जलनिधिशिखिन इति चतुस्त्रिंशत् सर्वत्र | एतद् यन्त्रं लिखित्वा समस्तं श्रीचक्र मानपृष्ठे प्रसबनसमये दर्शयेव गुविमोनामिति गर्भमोचननियमः / [148b] इदानीं गर्भादिबालतन्त्रमुच्यते योगिन्य इत्यादियोगिन्योऽष्टाष्टका याः प्रकटमहितले मातरो याः प्रसिद्धा 20 गर्भाख्या वासराख्या त्रिगुणनवदशैकादशान्यास्त्रिपञ्च / मासाख्या वत्सराख्या सकलभुवितले ताः प्रगृह्णन्ति बालं गर्भे शूलं च पीडां प्रसवनसमयेश्येव कुर्वन्ति योनौ // 147 // इह महीतले याः प्रकटाः चतुःषष्टियोगिन्यः, तास्ता (अ)ष्टाष्टका मातरः प्रसिद्धाः, तासां मध्ये गर्भाख्यास्त्रिगुणनव इति सप्तविंशतिः, वासराख्या दश, एकादश मासाख्याः, 25 अन्यास्त्रियं(प)ञ्चेति पञ्चदश वत्स रास्यास्तास्त्रयःषष्टिः बालं गृह्णन्ति सकलभुवितले गर्भे शूलं च पीडां प्रसवतसमयेऽप्येव कुर्वन्ति योचाविति / इह गर्भाख्यानां मध्ये पञ्चदशाधानदिनमारभ्य पञ्चदशदिनानि यावद् गर्भशूलं प्रकुर्वन्ति, ततो नवमासं यावन्नव, प्रसवनकाले एका, स्तनक्षारोहारिण्यौ द्वे इति गर्भाख्यानां नियमः। T 330 १.क.ब. माधु। 2. क. स. बाप।
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy