________________ T329 पटले] रसायनादिबालतन्त्रमहोद्देशः 247 तवच्छोतमिति चन्दनम्, तुरुष्कम्, गुरुशशिनम्, गुह्यम्, पुत्रकेशावसाने शीतादिधूपो देयमिति पाकान्ते नियमः / वासकार्येषु पुष्पं गुह्यं यावद् धूपदोषोपस(श)मो भवति / वेध इति वेधविषये कर्पूरम्, कस्तूरिका, त्रिफलम्, मदसुरेति कस्तूरिकासवो गुह्यं यावत् पुष्पवासदोषोपस(श)मो भवतीति गन्धयोगे नियमः / स्नानयोगे च सम्यगिति स्नानविषयेऽवश्यं गुह्यमिति देयं स्नानद्रव्यगण'मध्ये त्वगग्रन्थिपर्णम् / वनचरसहितमिति पुत्रकेश- 5 सहितम्, भागत्रयं पञ्चदशभागमध्ये दातव्यमिति नियमः / उद्वर्तनयोगे ग्रन्थिपणं देयम्; स्नाने यथाविभागमिति गन्धकक्षपुटविधिरुक्तः / इदानीं नाभिर्भर्ता गन्ध उच्यते शुद्धाब्ज[मि]त्यादिनाशुद्धाब्जं द्रव्यहीनं मधुकविरहितं गन्धतोयेन पिष्टं पक्वं धूपैः कषायोग्रसमधुकरजैसवृद्ध्या क्रमेण / द्वौ ग्रासौ खण्डमिश्री मलयचपलयोर्लोहकर्पूरयोश्च ग्रासस्याद्यावसाने मधुकमपि सितां निर्दहेदादिधूपात् // 143 // इह यदा एकद्रव्येण गन्धराज कर्तुमिच्छति, तदा शुद्धाजमिति नखम्, तदेव सामान्येन चतुर्विधम्-गजकर्णम्, अश्वखुरम्, उत्पलपत्रम्, वरद (बदर) पत्रं चेति / तेषु गन्धयोगजे गजकर्णाऽ श्वखुरं देयम्, धूपयोगे व(ब)दरोत्पलपत्रं देयम् / अत्र वरुर- 15 (बदर) पत्रं श्रेष्ठम्, तस्याभावे उ[147a]त्पलपत्रादिकं ग्राह्यम्, शुद्धं गन्धशास्त्रोक्तविधिना कथितं भजि(ज्जि)तम्, गुडकषायोदकेन षि(सिक्तं चूर्णितम्, त्रिफलादिभिः प्रलेपितं वासितमिति शुद्धम् / तदेवान्यद्रव्यर्होनं मधुकमित्यासवम्, तेन विरहितम् / गन्धतोयेन पिष्टमिति इह गन्धोदकार्थं स्वच्छतोयं गृहीत्वा एला-त्वग-मांसी वालक चन्दनं पोटलिकायां बद्ध्वा कर्षमेक'मष्टाढकतोये क्षिपेत् / ततः पादावशेष काथयेत् 20 यावद् गन्धोदकं भवति / तेनापरमपि गन्धं पोषयेदिति नियमः। पक्कं धूपैरिति तदेव शुद्धनखं पिष्टं धूपपाकविधिना पक्कं धूपैः / कषायोग्रसमधुकरजैसवृद्धचा क्रमेणेति मधुस(श)करया सहैकग्रासं कषायस्य प्रथमदिने प्रासस्याद्यावसाने मधुकमपि सितां निर्वहेवादिधूपादिति नियमात् / प्रथमं मधुकस(श)कराग्रासो देयो मध्ये कषायधूपस्य पुन' °ासावसाने मधुस(श)करां निर्दहेत्, द्वितीये दिने पुष्पवासं कारयेत्, एवमेकान्त- 25 रितम् उग्रधूपस्य ग्रासद्वयं दिनद्वयेन निर्दहेत्, नखस्य ग्रासत्रयं त्रिभिदिनैः / ततो द्वौ ग्रासौ खण्डमिश्राविति मलयस्य द्वौ ग्रासौ दिनद्वये / चपलस्यैकम् / लोहकर्पूरयोरपि ग्रासस्याद्यावसाने मधुस(श)करापूर्ववदिति / एवमेकान्तरेण चतुर्विंशतिदिनै पैः पक्कं भवति / 1. ग. गुण / 2. क. ख. नाभिभर्ता / 3. क. ख. वरद / 4. भो. Ba Da Ra (बदर) / 5. ग. पुस्तके 'वरदपत्रं' इति नास्ति / 6. क. कर्णो / 7. भो. Ba Da Ra (बदर)। 8. भो. Pa La Kar 9. भो. So gNis (कर्षद्वयम्); क. ख. पुस्तकयोः 'कर्षमेकं कर्षद्वयं' वा नास्ति / 10. ग. पुस्तके 'पुनः' इति नास्ति /