________________ 246 विमलप्रभायां... [अध्यात्मइति वेधादिकं पूर्ववदिति हंसपाकनियमः, हंसपाके चेति वचनात् / दोलापाकाद्युच्यते इह गन्धशास्त्रोक्तानां नवविधद्रव्याणां मध्ये अधमदलानाम् अष्टविधं कर्म शुद्धयेक्षालनम्, स्वेदनम्, उद्वर्तनम्,' भजनम्, भावनम्, धूपनम्, वासनम्, बन्धनं चेति / 5 तत्र क्षालनं काञ्ज(जि)केन, स्वेदनं दोलापाकेन, उद्वर्तन' गन्धोदकेन, मर्दितानां भजन गुडतोयादिना, भावनं शिशुछागमूत्रादिभिः, धूपनं कषायोऽग्नैः(ग्रैः), वासनं केतक्यादिपुष्पैः, वेधनं नाभ्यादिद्रव्यैरिति / अधमदलानां मुस्तकादीनां पुष्पगणे क्षालनं श्वे(स्वे)दनादिकं कुर्यात्, भजनं वर्जयित्वा / एवं त्वग्गणे मध्यमदलानां मूलगणे काष्ठगणे पत्रगणे जीवगणे नखस्य भज(ज)नं पुत्रकेशस्य पुटपाकः / शेषं पुष्पगणवत् / 10 फलगणे निर्जा(या)सगणे द्रवद्रव्यगणे न किञ्चित् कर्म कार्यमिति / एषामुक्तद्रव्याणां चूर्णं कृत्वा भाण्डमुखे वस्त्रोपरि चूर्णं देयम्, भाण्डं गन्धोदकेनार्द्धपूर्णं चूर्णि(ल्लि)कोपरि दत्वा बाष्पश्वे(स्वे)देन श्वे(स्वे)दयेत् यावच्चूर्ण स्तिमितं भवतिः तत उद्धृत्योद्वमनादिक (द्वर्तनादिक) कारयेत् / एवं पुत्रकेशस्यापि दोलाश्वे(स्वे)दः; नखस्य श्वे(स्वे)दस्थाने गोमयेन मृदा काथनं भर्ज(ज)नम्, कषायोदके निषेचनम् शेषं पूर्ववदिति पञ्चविधपाक15 नियमः / शेषं गन्धशास्त्रे ज्ञातव्यं गन्धाथिनेति / इदानीं गन्धादीनां गुह्यमुच्यते गुह्यमित्यादिनागुह्यं गन्धेषु पूर्ति रसनखचपलं धपयोगेषु गुह्यं तद्वत् सी(शी)तं तुरुष्कं गुरुमपि शशिनं वासकार्येषु पुष्पम् / वेधे कर्पूरनाभि त्रिफलमदसुरा स्नानयोगे च सम्यक् .. गुह्यं त्वग्ग्रन्थिपणं वनचरसहितं ग्रन्थिमुद्वर्तनं च // 142 // इह गन्धादीनां शीतधूपपाककाले गुह्यं गन्धेषु पूर्ति दद्यात् / रसनखचपलमिति गुह्यम् / इह धूपपाके अम्लो[146b]भूतानां गन्धानां धूपं दद्यात्, धूपयोगं कृत्वा / धूपयोग इति धूपपाकविषये गन्धरसं नखं सिलकं गुडेन मोद(शोध)यित्वा' दिनैकं दिनद्वयं वा यावदम्लत्वं त्यजति, ततः पिण्डादिकं दद्यादिति नियमः। अथ खरपाकेन गन्धे दग्धे सति निशायां शशाङ्ककिरणैः स्पृशेद् गन्धम्; तदभावे जलतोरे स्थापयेद् यावद् दग्धदोषोपस(श)मो भवति / गन्धानां विनाशे कारणमुच्यते इह शुद्धाशुद्धद्रव्याणामेकत्वं विनाशे कारणम्, तथा तैलं शा(सा)द्रस्थानम्, पलालम्, क्षारद्रव्यम्, विण्मूत्रम्, मूषकसंस्पर्शः, वातम्, अत्युष्ण स्थानमिति / 1. क. ख. उद्वमनं / 2. क. ख. उद्वमनं। 3. ख. भञ्जनं / 4. क, ख. उदमनादिकं / 5, क. ख. मोदयित्वा / 6. क. ख. अभ्युण /