________________ पटले] रसायनादिबालतन्त्रमहोद्देशः 243 सिहमूत्र'कोष्ठे व्याघ्र नखम्, शशिपुरे हरेणुम्, गगनपुरे हतमिति कचोरकम् / अपि च, तथा यथा धूपकार्ये संख(शङ्ख)मिति नखं तस्य त्रिभागम्, एवं त्वविभागास्त्रयो देयाः, स्नानयोगे स्नानद्रव्याणां मध्ये / एवमष्टादशभागे षड्द्रव्यैः स्नानं भवति / स्नानकक्षपुटे द्रव्यनियमः। इदानीमुद्वर्तनकक्षपुटमुच्यते इह स्नानकक्षपुटोक्तपञ्चद्रव्याणां मध्ये त्वग्वत् त्रयो भागाः पञ्चद्रव्याणां देयाः। धान्यमिति कस्तुम्बुरुम्, मुर्वीति मरुवकम्, शताहृति शतपुष्पा, दममिति दमनकम्, मधुरो एषां पञ्चानां त्रयो भागाः-एवमष्टादशभागेनोद्वर्तनं भवति / उद्वर्तनद्रव्यनियमः। इदानीं पकतैलार्थ तैलकक्षपुट उच्यते पूर्वेत्यादि इह पूर्वोक्तिगन्धकक्षपुटद्रव्यगणेऽनिवृत्ते जलजमिति नखम्, जलजमिव तनुरिति त्वक, ग्रन्थिपणं च, तयोर्भागत्रयं दत्त्वा गन्धकक्षपुटपञ्चद्रव्यैः सार्द्ध सप्तद्रव्यैरष्टादशभागेन वक्ष्यमाणक्रमेण तैलं पचेत्, नानागन्धतैलं भवति / तैलकक्षपुटद्रव्यनियमः / [144b] एवं चूर्णादिकम्चूर्णे ग्रन्थि च तद्वद् भवति तनुहत पानवासे मुखे च त्वग्वोलं ग्रन्थिशङ्ख फलदलपुटपाके च हंसादिके च / एवं त्रिंशत्प्रभेदैः सुरचितविविधान् गन्धधूपादियोगान् कुर्याद् द्रव्यविशुद्धैः फलपुटपचितैर्वासितैर्वेधितैश्च // 139 // चूर्णे चूर्णविषये प्रन्थि च तद्वदिति नखवत्पञ्चद्रव्येषु देयं ग्रन्थिपर्णकम् / तत्र(तनु)हतं पानवासे देयं भवति, मुखवासे च त्वग्वोलं ग्रन्थिशङ्कमिति द्रव्यचतुष्टयस्य भागत्रयं 20 फलपाके दलपुटपाके हंसपाके आदितो दोलाया (पा)के वक्ष्यमाणे देयमिति / एवमुक्तक्रमेण त्रिंशत्प्रभेदैस्त्रिशद्गन्धादियोगान् सुरचितान् विविधान् गन्धधूपादियोगान् स्नानोद्वर्तनादिकान् कुर्याद् गन्धाद्यर्थी, द्रव्यैः किम्भूतैः ? विशुद्धैः फलपुटपचितेवर्वासितर्वेधितैरिति द्रव्यसंग्रहनियमः / / इदानीं गन्धस्य धूपपाक उच्यते अष्टांशावावित्यादिअष्टांशादौ कषायो भवति दलवशात् तद्विगुण्योगधूपः पश्चाद् द्रव्यप्रमाणो गुड इति च भवेद् वर्द्धते ग्रीष्मयोगात् / पादांशं शङ्खधूपं मधुकमपि सितां निर्दहेद् द्रव्यतुल्यां पिण्डं शङ्खप्रमाणं मलयलघुचलं चन्द्रयुक्तं च तद्वत् // 140 // 1. क. ख. सिंहसूत्र० / 2. क. ख. हृतमिति, भो. Ha Ta (हत०)। 3-4. क.ख. त्वगवर्गयोः /