________________ 242 विमलप्रभायां [अध्यात्मइषुरिति पञ्च, त्रयोविंशतिमे नेत्र इति द्वौ, चतुर्विंशतिमे इन्दुरित्येकः, पञ्चविंशतिमे लोक इति त्रयः / एवमुक्तक्रमेण एलाद्या भागसंख्याः क्रमपरिरचिता पञ्चपञ्चप्रकोष्ठेषु; तैः पञ्चद्रव्यैर्गन्धं भवेत् / कक्षपुटपुरगतैः, पुरमिति कोष्ठकं शुद्धद्रव्यभागैदिनाख्यैरिति पञ्चदशभागः, एकद्वित्रिचतुःपञ्चभिरेकीभूतैरिति द्रव्यभागनियमो गन्धकक्षपुटे / जात्याद्येलालतानां दलकलशपुरे पातनीयं क्रमेण लाक्षासजं च दुग्धं पुरमपि च सितं धूपकार्येषु धूपम् / कुर्यात् कर्पूरखण्डै : कुसुमरसयुतैर्वह्निभागैर्नखैश्च . पिष्टं तद् गन्धतोयैरपि मधुरहितां धूपवति प्रकुर्यात् / / 137 // इदानीं धूपकक्षपुट उच्यते जातीत्यादिना10 इह पूर्वपातितानां कक्षपुटद्रव्याणां मध्ये जात्यादिपञ्चद्रव्याण्युद्धत्य तेषां स्थाने यथाक्रमेणान्यानि पञ्च देयानि; तत्र जातोति जातीफलम् आदितः, द्वितीया एला, तृतीया लता कस्तूरिका, चतुर्थं दलं तमालपत्रम्, पञ्चमं कलशं कक्कोलम्; एषां पुरे कोष्ठे पातनीयं क्रमेण-जातीफलकोष्ठे लाक्षा, एलाकोष्ठे सर्जरसम्, लताकोष्ठे दुःख (दुग्ध)मिति श्रीवासम्, दलकोष्ठे पुरमिति गुर्गु(ग्गु)लम्, कक्कोलकोष्ठे सितमिति कुन्दु15 रुकम् / एवं धूपकार्येषु धूपम्, पञ्चद्रव्यैः पूर्वोक्तभागैः कुर्यादिति नियमः / कर्पूरखण्डैः सह यत्र खण्डम्, तत्र मधु देयं खण्डेन सार्द्ध वह्निभागैर्नखैश्च सार्द्धम् / एवमष्टादश भागैः षडङ्गो धूपो भवति, कर्पूरखण्डमधुकस्तूरिकासहितो दशाङ्ग इति धू[144a]पकक्षपुटे द्रव्यनियमः। इदानीं धूपवतिरुच्यते पिष्टं तदित्यादि इह धूपकक्षपुटोक्तं मधूकविरहितं गन्धोदकेन किञ्चित् खण्डमिश्रेण पिष्टा धूपति तेन कुर्यान्नाराचाकाराम्, धूपनाय वस्त्रादिकं सद्धर्मप्रतिमार्थमिति नियमः / नाभ्यादौ सिंहमूत्रे शशिगगनपुरे पातयेत् स्नानयोगे ग्रन्थि व्याघ्र हरेणुं हतमपि च तथा शङ्खत्वक्तिविभागाः / धान्यं मुर्वी शताऔं दममपि मधुरो तद्वदुद्वर्तने च पूर्वोक्ते चानिवृत्ते जलजमपि तनुर्ग्रन्थिपणं च तैले // 138 / इदानीं स्नानकक्षपुट उच्यते नाभ्यादावित्यादिना इह पूर्वकक्षपुटपातितद्रव्याणां मध्ये चत्वारि (पञ्च) द्रव्याणि नाभ्यादीन्युद्धृत्य तेषां कोष्ठेषु यथासंख्यं स्नानकक्षपुटेऽन्यानि देयानीति / तत्र नाभिकोष्ठे ग्रन्थिपणं पातयेत्, 1. ग. सप्तादश / 2. भो. INa (पञ्च)।