________________ 244 विमलप्रभायां [अध्यात्मइह गन्धयोगे त्रिविधं दलम्-अधममध्यमोत्तमम् / तत्राधम मुस्तकम्, सै(0)लेयम्, उशीरकम्, वा(पा)लकम्,' कपित्थम्, विल्वम्, मुरा, मांसीति; एतानि दलान्य-२ धमानि / एषां वशाद बलवशादादौ कषायो गुडेन मोदितं हरीतकीचूर्ण धूपो भवति; तेन दलमष्टांशेनादौ धूपयेद् दिनमेकम्, ततः पुष्पवासं कृत्वा दिनद्वयम्, तृतीये दिने मध्यमदलं मिश्रयेत्; ततस्तद्विगुण्योगधूप इति / तस्य पूर्वापरस्य द्विगुण्य उग्रधूप इति / लाक्षाम्, सर्जरसम्, श्रीवासम्, गुग्गुलुः, कुन्दुरुकम्-एभिः पञ्चोप्रैर्गुडेन मोदितैरुग्रधूपो भवति; कषायस्य द्विगुण्यो देयः, दलस्य पादांशमिति / ___ अत्र मध्यमदलं पुष्पवर्गम्, चन्दनम्, अगुरुम्; फलवर्गम्, नखम्, त्वग्वर्गम, निर्यास वर्गमिति / एवं दिनद्वयम् उग्रधपेन धपयेत् एकान्तरितं दिनद्वयं पुष्पवासं कुर्यात, 10 पश्चाद् द्रव्यप्रमाणं गुडम्, अपि च धूपेन सार्द्ध निर्दहेत ग्रीष्मे; ततो वर्द्धते ग्रीष्मयोगात्, वार्षे द्रव्यद्विगुण्यः, हेमन्ते त्रिगुण्यो देयः, ततो गुडे दग्वे सति शङ्कमिति नखं गुडेन साई पादांशं निर्दहेद दिनद्वयं पूर्वविधिना। ततो मधुकं सितां स(श)करां द्रव्यतुल्यां निर्दहेत पिण्डधूपेन सार्द्धम् / धूपग्रासस्याद्यावसाने केवलं निर्दहेत् / एवं गुडोऽपि प्रतिदिनं ग्रासत्रय दग्ध्वा विश्रामयेत्, प्रतिदिनं द्रव्यस्याष्टांसं(शं) धूपं निर्दहेत्, अन्यथाऽनेनापक्वो भवति, 15 अधिकेन दग्धगन्धो भवति, अपक्वे अम्लो भवतीति नियमः / पिण्डमिति पिण्डधूपम्, कक्षपुटोक्तं कर्पूरसहितम् उग्रद्रव्यवर्जितम्, पञ्चद्रव्यमधुस(श)करामोदितैः पिण्डधूपम् तदेव संख(शङ्ख)प्रमाणमिति द्रव्यपादांशं निर्दहेत् / तत्र पुत्रकेशं जातीफलं कर्पूरं नाभिः, अपरं कक्षपुटोक्तमुत्तमं दलं दत्त्वा, मलयं चन्दनम्, लघुमित्यगुरुम्, चलमिति' सिलकम्, चन्द्रमिति कर्पूरम्; तेन युक्तं T382 20 द्रव्यत्रयम् / तद्वदिति पिण्डधूपद्रव्यसदृशं' निर्दहेद् मधुस(श)करासहितम् / अत्र गुडो वटिकागुडो ग्राह्यः, न द्रव्यपूर्वक इति नियमः / पक्वं गन्धं सुपुष्पैः कतिपयदिवसं व्यासयेद् यावदिष्टं . पश्चाद् वेधं शतांशं त्रिफलशशिमदैः कारयेत् सासवैश्च / / सि(शि)ग्व्रम्बु छागमूत्रं कुसुमरससमं क्वाथयेत् पुष्पजान्तं मासैकं धान्यपक्वं भवति मृगसममासवं नाभिविद्धम् // 141 // 25 ततः पक्वं गन्धं ज्ञात्वा, अस्य पार्क मर्दितस्य गन्धेन करस्य तलं यदि रक्तं भवति, तदा परिपक्कम; अथ न पक्कम्, अतो यावत् पाकं न भवति तावच्छीतधपं न दाहयेदि[145b]ति / एतत् पक्कं गन्धं सुपुष्पैः चम्पकाद्यैः सुगन्धैः कतिपयदिवसं पक्षाद्धं पक्षमेकं वा यावद् धूपदोषं त्यजति, तत इष्टं भवति / पश्चाद् वेधं सतांसं (शतांशं) 1. भो Pa La Ka (पालक)। 2. भो. rZas (द्रव्याणि) / 3. क. ख. ग्रीवासं / 4. भो. Khu Ba (शुक्र); क. ख. निज्जास / 5. क. ख. बलमिति / 6. क. ख. पिण्डद्रव्यधूपसधृशं /