________________ 238 विमलप्रभायां [अध्यात्मइदानीं पापरोगोपस(श)मनाथ भैषज्यमुच्यतेपिष्ट्वा शीताम्बुसूर्यो ज्वरविहि(ह)तनृणां कण्टकान् नाशयन्ति घृष्ट त्वक्षोभ्यमिश्रं हरति भयकरान् वा कपालं ज्वरान्ते / [141a] मन्त्रश्चों कारपूर्वो जलशिखिमरुतां वज्रपूर्व च नाम / रक्षां तेनैव कुर्यात् शिरसि गलहृदो भिगुह्यादिकेषु // 129 // इह यदा पापरोगचिह्न भवति ज्वरितहस्तपादसन्धिषु व्यथा तथा(दा) पिष्ट्वा शीताम्बुना मसूर्यो ज्वरविहि(ह)त' नृणां दत्ताः कण्टकान् नाशयन्ति; तथा ज्वरान्ते तृतीयदिने कण्टकोत्थानकाले पापरोगेण मृतस्य कपालम् अलाभे यथालब्धं (घृ)ष्टम् अक्षोभ्यमिकं पीतं पुरुषकपालं पुरुषेण, स्त्रीकपालं स्त्रिया। अलाभे यथालब्धं पीतं हरति भयकरान् कण्टकान् धा(वा) इति यथालब्धं कपालं ज्वरान्ते इति नियमः / अत्र मसूर्यादीनामभिमन्त्रणाय मन्त्रो भवति / स च ओंकारपूर्व इति मन्त्रश्चों कारपूर्वः। .. जलशिखिमरुतां पूर्वम् ओंकारः, जलमिति पवर्गस्य द्वितीयाक्षरं तोयधातुः फ इति, शिखीत्यधो र इति, ऊर्वे एकारः, एषां जलशिखिमरुताम् एकत्वं कें', अनुस्वारम् आकाशं सर्वव्यापित्वादिति / बज्रपूर्व च कण्टकानां नाम, रि(र)क्षां तेनैव कुर्यात्; यथा मसूर्यादेः सप्तवाराभिमन्त्रितं तथैव रक्षां तेनैव शिरसि गले हृदये नाभी गुह्ये आदिशब्दादुष्णीषे; एषु षट्सु स्थानेषु त्रिसन्ध्यायां रक्षां कुर्यादिति नियमः। अत्र मन्त्रः-ॐ के विश्वमात[:] वज्रकण्टकान् नाशय नाशय मम शान्ति कुरु कुरु स्वाहा, पररक्षार्थ देवदत्तस्य शान्ति कुरु कुरु स्वाहा, इति नियमः / इदं भगवत्या विश्वमातुः सर्वेत्यु(षु उ)पद्रवेष्वात्मपररक्षायां स्मर्तव्यमिति भगवतो नियमः। अनेन मन्त्रेण सप्तवारानभिमन्त्र्य मसूरिकाः शीताम्बुना पिष्ट्वा पातु[तु] देयाः, ज्वरनष्टस्य कपालम् अक्षोभ्येन पिष्ट्वा देयम्; भूतग्रस्तस्य त्रिकटुकेन सहितम् अक्षोभ्यं पिष्ट्वा देयमिति पापरोगोपस(श)मननियमः / इदानी सूर्यातपस(श)मननियमः क्रियते तुल्येत्यादिनातुल्यं धात्री च धान्यं त्वपरमपि तथा तिन्तिडीपत्रचूर्ण तोये चन्द्रार्कजुष्टे खलु विगतमले क्वाथयेत् पादशेषम् / तत् [141b] क्वाथं खण्डमिश्रं पुनरपरदिनात् पीतमेतत् त्रिरात्रं ग्रीष्मे सूर्यांशुदाहं हरति मरणदं सप्तधातौ गतं च // 130 // इह यदा ग्रीष्मे सूर्याशुदाहो भवति अध्वनि, तदा तुल्यं धात्रीति आमलकीफलचूर्णम्, धान्यमिति कुस्तुम्बुरुः, तेन तुल्यमपरमिति; तथा तिन्तिरी(डी)पत्रचूर्ण बन्धु 1. भो. rNam Par bsNun Pa (विहत)। 2. ग. ०वाराभिमन्त्रणम् / 3. क. ख. पुस्तकयो स्ति / 4. भो. hDab Ma (०पत्र) / 20