________________ 237 पटले] . रसायनादिबालतन्त्रमहोद्देशः इदानीं मुखादिरोगोपस(श)मनाथ क्वाथतैलाधुच्यते जातीत्यादिनाजातीक्वाथाम्बु चोष्णं मुखरुजशमनं दन्तशूलस्य चैवं तेलं वस्त्वम्बुपक्वं त्रिकटुकलवणैः कर्णरोगस्य नाशः / आज्यं क्षीराहिरक्तः क्वथितमपि सदा घ्राणरोगस्य नाशः कर्कोटी लाङ्गलीन्द्री हरति सहखरां गण्डमालां प्रलेपात् // 127 // 5 इह सर्वद्रव्याष्टगुणं तोयं जातीपत्राष्टगुणं तोयं पादावशेषं जातोक्वाथाम्बुतोयं किञ्चिदुष्णं मुखरजस(श)मनं भवति / दन्तशूलस्य चैवं तैलं तिलतैलं वस्त्वम्बु छागमत्रम्, तेन तुल्यं पक्वं तैलावशेषं त्रिकटकलवणैः सपादांशैः पाकावशा(सा)ने प्रदत्तः, तत्कणे प्रविष्टं कर्णरोगस्य नाश इति [140b] / एवमाज्यगोघृतक्षीरेणाष्टगुणेन क्वाथावसाने अहिर्नागकेशरं रक्तं [क]कुमं तैः पादांशेन दत्तैरनेन घृतेन नस्यं घ्राणरोगस्य 10 नाश एव / कर्कोटी वन्ध्यकर्कोटी लागली इन्द्रो इन्द्रवारुणी तिक्ता हरति सहखरां गर्दतांलतैः (गर्दभाम्बुलिप्तैः') सह गण्डमालां प्रलेपादिति नियमः संक्षेपतः, विस्तरेण वैद्यशास्त्रे ज्ञेय इति / इदानीं वज्रकण्ठकोपस(श)मनमुच्यते कुर्याद्धस्तावित्यादिनाकुर्याद्धस्तौ प्रलम्बौ समपदकमले प्राणवायोनिरोधं यावद् भूम्यां प्रपातो न हि भवति तनोर्मुञ्चनं च ज्वरस्य / भूयो भूयः समाधौं मरणभयकरान् नाशयेत् कण्टकान् वै हृत्पद्मे चन्द्रमूनि त्वमलशशिनिभा भाविता विश्वमाता // 128 // इह यदा पापरोगोपद्रवो भवति, तदा प्रथमं ज्वरो भवति, हस्तपादसन्धिषु व्यथा भवति, शिरश्च व्यथते। इदं लक्षणं ज्ञात्वा समाधिमवलम्बयेत् / तत्रायं विधिः-नि(नी)रन्ध्रे 20 गृहे प्रवेश्य ज्वरितः कुर्याद्धस्तौ द्वौ प्रलम्बी ऊरुपर्यन्तं समपदकमले कुर्यात्, प्राणवायोनिरोधं कुम्भकं कुर्यात्, यावत् प्रया(पा)तो भूम्यां न हि भवति तनोः तावज्ज्वररोगेण भूम्यां प्रपातो भवति; अथाप्रपातो यावत् पुनः पुनः प्राणायाम कुर्यादिति नियमः / मुञ्चनं च ज्वरस्य यावन्न भवति तावत् कार्यम्, ज्वरे मुक्ते सति न कुर्यादिति नियमः / भूयो भूय. समाधौ स्थितो मरणभयकरान् नाशयेत् कण्टकान् वै। हृत्पद्ये त्वमल- 25 शशिनिभा भांविता विश्वमाता, प्राणायामेन पद्मवरदहस्ता वज्रपद्मासनस्था चन्द्रमण्डले द्विभुजैकवक्त्रेति नियमः / इति पापरोगोपस(श)मः / 1. भो. Bon Buhi Chu Dan bCas Pa Byugs Pas (सह गर्दभाम्बुलिप्तः) / 2. क, ख, वज्रपद्मायनस्था / -