________________ T325 236 विमलप्रभायां [अध्यात्मबाह्ये विदशब्देन वैरोचनिर्वलिवलेवंशाद् गन्धको विडुच्यते, अध्यात्मनि विडेव, अनयोस्तुल्यभागः। मूत्रं बाह्ये विष्णु नृपो भि(भृ)ङ्गराजरसम्, अध्यात्मनि मूत्रमेव / रक्तं बाह्ये अभ्रकम्, अध्यात्मनि स्त्रीपुष्पम्, तुल्यभागमिति / शुक्रबाह्ये पारदः, अध्यात्मनि शुक्रमेव, अनयोः समभागमिति / नृमांसं बाह्ये त्रिफला, अध्यात्मनि मज्जा, अनयोरपि समभागमिति / एवं विडेकभागः, मांसस्य पादोनभागः, रक्तार्द्धभागः, शुक्रस्य एकपादः, एतदेकीकृत्य मूत्रेण सप्तवारान् भावयेत् / आतपे भूयो भूयः शोषयित्वा, ततः प्रत्यहं कर्षमात्रं घृत-मधुभ्यां भक्षितं षण्मासावधेरायुदं भवति, शाकाम्लतैललवणवर्जनादिति पञ्चामृतनियमः। इदानीं पुष्पनस्य उच्यते सध्यानमित्यादिना इह ध्यानं मध्यमायां प्राणप्रवेशः, तेन ध्यानेन सह सध्यानमिति / पुष्पं स्त्रीरजः, बाह्ये केशराजिका भृङ्गराजः, तस्य रसः स्त्रीपुष्पतु[140a]ल्यं सध्यानं पुष्पनस्य सध्यानानां हरति सपलितानङ्गजातान् जरांश्च, षण्मासावधेरिति [नस्य]' नियमः / . इदानीं पञ्चप्रदीपमुच्यते गोश्वदन्तीहयनराणां मांसमक्षिकादिमिश्रं मधुना मिश्रं भुक्तं पश्चप्रदीपं 15 सकलरुजहरं भवतिः अपरं मक्षिकाच्छदिमाधवी, तया साई सकलरुजहरं भवतीति नियमः / स्त्रीपुष्पं शुक्रमिनं पूर्वोक्तं बाह्याध्यात्मिकम्, अपहरति जरां भक्षितं च वर्षमिति पूर्वोक्तभोजननियमः। इदानीं वाताद्युपस(श)म उच्यतेवातघ्नं क्षारमम्बु प्रभवति मधुरं पित्तशत्रुः कषायः / श्लेष्मघ्नं सर्वतिक्तं कटुकमपि तथा चौषधिर्वा रसो वा / श्लेष्मघ्नं छागदुग्धं त्रिकटु कसहितं माहिषं पित्तशत्रुः वातघ्नं चोष्ण(चोष्ट्र)दुग्धं त्रिविधरुजहरं गोपयः सपिरेव / / 126 // वातघ्नं क्षारमम्बु प्रभवति मधुरं पित्तशत्रुः कषायद्रव्यं* श्लेष्मघ्नं सर्वतिक्तं त्रिकटुकसहितम्, औषधि, रसो वा भक्षितं पीतमिति / श्लेष्मघ्नं छागदुग्धं त्रिकटुक25 सहितम्, माहिषं पित्तशत्रु::, शर्करासहितम् / वातघ्नं वो(चो)ष्णदुग्ध (ष्ट्रदुग्ध) शै(से)न्धवसहितं त्रिविधरुजहरं गोपयो यथासंख्यम्, सैन्धवादिसहितं वातपित्तश्लेष्मघ्नमिति / सपिरेव गोघृतं त्रिविधरुजशमनं ज्वररहितानामिति नियमः। 1. भो. rNub Pa (नस्य)। 2. क. ख. वोष्णदुःखं; ग. वोष्णदुग्धम् / 3. भो. rNa Mohi Ho Ma (उष्ट्रदुग्धम्)। *. एतावानंशः क. पुस्तके नास्ति, ख. पुस्तकादयं गृहीतः। .