________________ 10 पटले]. रसायनादिवालतन्त्रमहोद्देशः 229 कुरुते बोधिचित्तस्य योगी। प्राणापानयोः परस्परं संयोगो योगः, स यस्यास्ति(स्तीति) योगी; बोधिचित्तस्य च्युतिक्षणस्य निरोधमुपस(श)मं निष्यन्दादिकमक्षरं करोति / तस्माद यत् किञ्चिविष्टमिति तस्मानिष्यन्दाद् विपाकपुरुषकारवैमल्यमिष्टं यत् किञ्चिदवाच्यं तत् कतिपयदिवसः प्राप्यते जन्मनोह / कतिपयदिनानि त्रिवर्ष-त्रिपक्ष-कालचक्रदिनानि, तैरिति महामुद्रासिडिः प्राप्यते एभिः स्कन्धः शून्यादिविमोक्षशोधितैरिति 5 महामुद्रासिद्धिसाधनमार्गनियमः। इदानीमकालमरणवञ्चनोच्यते मार्तण्ड इत्यादिनामार्तण्डेन्टोनिरोधः समविषमगतौ मध्यमेऽग्नी प्रवेशः प्राणापानद्वयोश्च प्रथमदिनगते वञ्चनाकालमृत्योः / प्राणेनापूरयित्वा सह करचरणैरगुलिपर्वान्नखान्तान् षट्चक्रे बुद्धदेव्योऽभयकरकमला योगिना भावनीयाः // 109 // इह यदाऽकालमरणलक्षणं पश्यति योगी तदा मातंण्डेन्द्रोनिरोधः दक्षिणवामनाज्योनिरोधः। समविषमगताविति संहारसृष्टिगतौ मध्यमे अग्नाविति राहुकालाग्नौ मध्यनाड्यां प्रवेशः कर्तव्यः / प्राणापानद्वयोश्च प्रथमदिनगते मध्यमाप्रवाहैकदिनगते सति वञ्चना साऽकालमृत्योर्भवति योगिनामिति / प्राणेनापूरयित्वा पञ्चमण्डलवाहिना 15 प्राणेन मध्यमायोगेन सह करचरणैरङ्गुली(लि)पर्वान्नखान्तान् पूरयित्वा षटचक्र उष्णोषादिके बुद्धदेव्योऽभयकरकमला योगिना भावनीया वक्ष्यमाणक्रमेण इत्यकालमरण. वञ्चनानियमः। इदानीं वातरोगादिशमनमुच्यते अपानेत्यादिनाआपानाकुञ्चनेष्टं भवति वरतनौ वातरोगे समस्ते प्राणायामः कफे स्यात् पुनरपि च तयोर्मुञ्चनं पित्तदोषे / ऊवधि:[137a] सन्निरोधो भवति सुखकरः सन्निपाते ज्वरे च नाभ्यूवं प्राणवायुः सकलरुजहरो नाभिमूलेऽपरश्च // 110 // इह शरीरे पूर्वोक्ता'शीति नाड्यो वातदोषकारिण्यः, नाभी गुह्ये च तासां समधातुत्वकरणाय अपानस्याकुञ्चनमिष्टं सुखकरं भवति वरतनौ मन्त्रिणां वातरोगे 25 शूलादिके समस्ते इति / तथा ललाटे उष्णीषे विंशति नाड्यः श्लेष्मदोषकारिण्यः / तासां समधातुकरणाय प्राणायाम इष्टो भवति / कफे स्यादिति कफरोगे जाते सति प्राणनिरोधः कर्तव्यो योगिनेति / पुनरपि च तयोर्मुञ्चनं पित्तदोषे इति पित्तदोषे जाते सति तयोः प्राणापानयोर्बाह्ये मुञ्चनं कृत्वा वक्ष्यमाण मेण बाह्यवातं शीत्कारेण गृहीत्वा लम्बिकायां जिह्वामारोप्य अमृतपानं स्तूकादिकं कर्तव्यम् / पित्तरोगे समस्ते 30 1. ख. पुस्तके नास्ति / 30