________________ 10 230 विमलप्रभायां [अध्यात्मनाझ्यः कण्ठे हृदये चत्वारिंशत् पित्तदोषकारिण्यः / तासां धातुसमत्वकरणायासो योगः कर्तव्य इति / ऊधिः सन्निरोधो भवति सुखकरः सन्निपाते ज्वरे चेति / इह गुह्ये दश नाड्यः सन्निपातकारिण्यः ; तासां धातुसमत्वकरणायोर्ध्वाधः प्राणापानयोनिरोध इष्ट इति ज्वरे चेष्टः / कस्माद्धेतोः ? यतो नाम्यूध्वं' वहति प्राणवायुः, अतः सकलरजहरो नाभि'मूले अपानो वहति, नाभेरधः सकलरुजहरोऽपरश्चेति वातादिरोगोपशमनियमः। इदानीं जठररोगोपशमनाय प्रतिविधानमुपदिशन्नाह आकुञ्च्येत्यादिनाआकुञ्च्यापानवायुं त्रिविधपथगतं प्राणमेवोर्ध्वतश्च सङ्घट्टे यावदग्निः प्रभवति बलवान् व्याप्नुवन् सर्वकाये / जग्री(यकृत)प्लीहार्ष(र्श)रोगानपि जठरगतान् मासयोगाच्च हन्ति / ऊर्ध्वश्वासं च काशं(सं) त्रिविधमपि विषं नेत्ररोगादिकञ्च // 111 // इह जठरे यदा जग्रयादिकं भवति, तदा आकुञ्च्यापानवायुम् अधस्त्रिविधपथगतमिति विण्मूत्रशु[137b]क्रपथगतं प्राणमेवोद्धं (वं)तश्चाकुञ्चनीयं चन्द्रसूर्याग्निपथगतम्, तयो सङ्घट्टे यावदग्निर्जठराग्निः प्रभवति बलवान् व्याप्नुवन् सर्वकाये / असोऽग्निर्जनो(यकृत्)प्लोहार्ष(श)रोगानपि जलोदरादीनि मासयोगाच्च हन्ति; ऊर्ध्व'T 324 15 श्वासं च काशं(सं) च त्रिविधमपि विषं स्थावरं जङ्गमं कृत्रिमञ्च नेत्ररोगादिकं शिरःशूलं हन्तीति जठररोगोपशमनियमः। कक्षात् सव्यावसव्यात् स्तनमपि बलवत् पीडितं प्राणरोधात् / सव्याद् वामा न नाडी प्रवहति सहसा वामकक्षा च सव्या / मासार्द्धनाप्यरिष्टं हरति मरणदं योगयुक्तश्च योगी पादौ वज्रासनस्थो धृतकरकमलो पृष्ठशूलस्य नाशम् // 112 // इदानीमरिष्टवञ्चनाय नाडीबन्धकरणमुच्यते कक्षादित्यादिना इह यदा योगी मध्यमायामहोरात्रं प्राणं प्रवेष्णं(ष्टुं न शक्नोति, तदा वामारिष्टे दक्षिणे सञ्चार प्राणस्य करोति, दक्षिणारिष्टे च वामे सञ्चारं करोति, मासाद्ध मासमेकं यावदिति / अनेनोक्तेन कारणेन कक्षात सव्यावसव्यात स्तनमपि बलवत 25 पोडितं प्राणरोषात् / सव्ये स्तने पीडिते न वामनाडी वहति, वामकक्षात् पीडिते न सव्या नाडी वहति; एवं मासार्द्धनाप्यरिष्टं हरति मरणदं योगयुक्तश्च योगीति, योगः पूरकरेचकयोरेकता कुम्भक इति, तेन युक्तो योगयुक्त इति; हरतीत्यपनयतीत्यकालमरणवञ्चनानियमः। 1. क. ख. नात्यूध्वं; ग. नास्त्यूध्वं ; भो. ITe Bahi sTen Du (नाभ्यूज़)। 2. क. प्राणमेवोद्धतं चाकुञ्चनीयं / 20