________________ T323 228 विमलप्रभायां [अध्यात्म(६) रसायनादिबालतन्त्रमहोद्देशः इदानीं लौकिकलोकोत्तरसिद्धिहेतोस्तनुरक्षणमुपदिशन्नाह आदावित्यादि-. आदौ . संरक्षणीया सकलजिनतनुमन्त्रिणा सिद्धिहेतोः कायाभावे न सिद्धिर्न च परमसुखं प्राप्यते जन्मनीह / तस्मात् [136a] कायार्थहेतोः प्रतिदिनसमये भावयेन्नाडियोगं काये सिद्धेऽन्यसिद्धिस्त्रिभुवननिलये किङ्करत्वं प्रयाति // 107 // . इह खलु संसारे सत्त्वानां प्राणोऽपानश्च संहारक्रमेण निर्गच्छति, सृष्टिक्रमेण प्रविशति शरीरे यथा तथा मूलतन्त्र भगवान्नाह सेकोद्देशे "नाभ्यब्जे हृदये कण्ठे ललाटोष्णीषपङ्कजे / भूतो याग्नि मरुच्छ्न्यं संहारेण प्रवाहिनी। निर्गच्छन्ती विशन्ती सा सृष्टिना विशति क्षितौ" // तथाऽपानशक्तिः "नाभी गुह्ये च मण्यब्जे कायवाञ्चित्तवाहिनी। निर्गच्छन्ती विशन्ती सा संहारसृष्टिरूपिणी" / / अतः कारणात् आदी संरक्षणीया सकलजिनतनुः पञ्चस्कन्धादितनुमन्त्रिणा सिद्धिहेतोः, 15 कायाभावे न सिद्धिनं च परमसुखम् अनास्रवं सुखं प्राप्यते जन्मनोह, तस्मात् कायार्थ हेतोः, कायार्थ इति बोधिचित्तम्, तस्य रक्षणहेतोः प्रतिदिनसमये भावयेन्नाडी(डि)योगम्, ललनारसनयोर्योगान्नाडियोगं मध्यमायां भावयेत् प्राणवायुम्, अपानं सं(शं)खिन्यां विण्मूत्रनाडियोगमिति / दिननिशिसमये द्वादशलग्ने इह' नाडी(डि)योगं भावयेत् / अनेन भावितेन कायसिद्धिः, काये सिद्धे सति अन्या सिद्धि लौकिकी किङ्करत्वं प्रयातीति 20 लौकिकसिद्धिसाधननियमः। इदानीं लोकोत्तरसिद्धिसाधनमार्ग उच्यते शून्य इत्यादिनाशून्ये धूमादिमागं गुरुनियमवशाद् भावयेद् विश्वसीम्नो नाडीचक्रेषु तस्मात् स्थिरमपि कुरुते प्राणमापानवायुम् / पश्चादिन्दो(न्द्वो)निरोधं ग्रह इव कुरुते बोधिचित्तस्य योगी तस्माद् यत् किञ्चिदिष्टं कतिपयदिवसैः प्राप्यते जन्मनीह // 108 // इह शून्ये धूमादिमागं गुरुनियमवशात् वक्ष्यमाणक्रमादिति / भावयेद् विश्वसोम्नो विश्वं सर्वाकारं वि[136b]श्वं तत्पर्यन्तं चित्तमिति / नाडीचक्रषु तस्मादवधेः स्थिरमपि कुरुते प्राणमापानवायुं नाभिचक्रे योगी। पश्चादिन्दो(न्टो)निरोधमिति ग्रह इव राहुरिव 1. क. इदं; भो. hDi (इयम)। 2. क. ख. पश्चान्निरोधमिति; भो. Phyis Nas zLa Ba Nes Par hGog Pa (पश्चादिन्दोनिरोधम्)। 25