________________ 226 विमलप्रभायां [ अध्यात्मशानधातुपाकः / प्रज्ञाया रजः पाकः, उपायस्य शुक्रपाकः, ततः' प्रज्ञायाऽपरद्वादशवर्षाणि, उपास्यापरषोडशवर्षाणि पृथिवीधातुपाकः। अतोऽवधेः सत्त्वभागो मध्यमो भवति [134b] / प्रज्ञायाऽपराष्टादशवर्षतोयधातुपाकः, उपायस्य सार्द्धद्वाविंशतिदिनमासैकाधिक षोडशवर्ष पूर्ववत् तोयधातुपाकः / पूर्ववत् प्रज्ञाया अग्निपाकः, उपायस्यापि पूर्ववत् / एवं 5 वायुधातुपाकः, आकाशधातुपाकः; षण्णवतिवर्ष साद्धंदशमासेः सर्वधातूनां पाकः सत्त्वरज स्तमोभेदेन / ततो मध्यनाडी वर्षपक्षमानेन दिनमानेन त्रिंशद्व्यञ्जनमानेन पञ्चपञ्चाशदधिकैकादशशतदिनगणेन कालः प्ररोहति / काद्यान् वर्गान् समात्रान् पूर्वोक्तानपि गुणगुणितानशीत्युत्तरदिनसहस्रभूतान् यान् त्रिपक्षस्वरांश्च ह्रस्वदीर्घप्लुतान् पञ्चचत्वारिंशत्रिंशद्व्यञ्जनानि / त्रिविधगति10 वशादिति वामदक्षिणमध्यमागतिवशाद् रोहते तान्(नि) मृत्युरिति / एवं चारान् पञ्चन हाणां मङ्गलादीनां चतुःत्रिंशदधिकैकादशशतान् पूर्वोक्तानिति / रविशशिधरणं रसयुगशशिनम् एकादशपदात्मकं राहुकेत्वोः पदं सार्द्धसप्तात्मकं मासपरिच्छिन्नात्मकं केतोरुदयपदं प्रतिदिनं द्विघटिकात्मकम् / एते पद घटिकात्मकास्त्रिवर्षस्त्रिपक्षत्रिंशद्व्यञ्जनदिनसंख्या स्तानेवारोहते मृत्युरिति / एवं द्वात्रिंशद्वर्षपक्षानपि गुणगुणितान् चन्द्रसूर्याग्निभिन्नान् 15 सत्त्वरजस्तमोभिन्नानिति षण्णवतिवर्षेऽपरे सार्द्धदशमासपक्षानिति / पक्षा वर्षत्रयाणामपि शशिनि गुणाः कालवह्नि द्विपक्षाः ऊनीभूताः शताब्दे समविषमगतौ शेष]पक्षा रवीन्द्वोः / लोकाक्ष्यग्न्यक्षिसंख्या दिननिशिसमयान् भर्तृहीनान् समस्तान् वर्गान् मात्रान् रवीन्द्वोर्ग सति गतिवशाद् व्यञ्जनादीनि मृत्युः॥१०४॥ 20 वामदक्षिणनाडीपक्षा वर्षशतपक्षाणां मध्ये पक्षा वर्षत्रयाणां द्वासप्ततिः, शशिनः अपि गुणास्त्रिपक्षाः, कालवह्निद्विपक्षाः; एवं सप्तसप्ततिपक्षा ऊनीभू ताः शताब्दे शता[135a]ब्दपक्षराशौ चतुर्विंशतिशतसंख्ये, शेषपक्षा रवोन्द्वोः सव्यावसव्ययोरिति / लोकाश्यग्न्यक्षिसंख्या इति त्रयोविंशत्यधिकत्रयोविंशतिशताश्चेति / एवं दिननिशिसमयान् भर्तृहोनान् समस्तान्, वर्षशतस्य षट्त्रिंशत्सहस्रांश्च, भर्तृहीनान् त्रिवर्षत्रिपक्षव्यञ्जनमास25 दिनहीनान् वामे दक्षिणे भक्षते मृत्युः / वर्गान् मात्रान् रवीन्द्वोर्गसति गतिवशाद व्यक्षनावोनि मृत्युः, अरिष्टादारभ्य मध्यमाकाले भक्षते इति / सार्द्धा वे चक्रनाडीः शशिपदरहिता वारनाडीविहीनाः प्रज्ञोपायप्रभेददिननिशिसमयैर्भक्षते तांश्च मृत्युः / एवं वर्गान् समात्रान् स्वरगणसहितान् व्यञ्जनान्येव वारान् हीने वा मध्यमेष्टे शशिरविमरणे व्यञ्जने चाधिदेवे // 105 // 1. भो.पुस्तके 'प्रज्ञाया' इत्यतः पूर्व 'sNa Ma bSin Du (पूर्ववत्)' इति अस्ति / 2. ग. ततो। 3. क. पारा, ग. वारा; भो. rKan Pa (पद)। 4. ग. पुस्तके 'पक्षा' इति नास्ति /