________________ ___225 पटले ]. क्षणलक्षण-कालचक्रनियममहोद्देशः च्चित्तस्य भावस्त्रिविधभववशाविति / इह संसारचित्तस्य त्रिविधभववशादिति कामरूपारूपभववासनावशात् वेदना सौख्यदुःखं सांसारिकम्, तावत् संसारे दुःखलक्षणं भ्रमणं चित्तस्यापि, नृप स्वर्गमत्र्येषु, अधश्च देवमनुष्यनरकादिषड्गतिषु भ्रमणमालयविज्ञानस्येति वासनाग्रहनियमः / अतस्त्रिधा वासनातीतः "संसारपारकोटिस्थः कृत्यकृत्यस्थले स्थितः" (ना० स० 6, 13) / ज्ञानकायो भगवान् सम्यक्सम्बुद्धो देवासुरनागादिभिर्नमस्कृतचरणारविन्दः कालचक्र इति वासनापगमनियमः। इदानीं यथा गर्ने व्यञ्जनस्वरोत्पादोऽभूत्, तथा मृत्युलक्षणमुच्यते कायानित्यादिना काद्यान् वर्गान् समात्रानपि गुणगुणितान् यान् त्रिपक्षस्वरांश्च 10 त्रिंशद् वै व्यञ्जनानि त्रिविधगतिवशाद् रोहते तानि मृत्युः / चारान् पञ्चग्रहाणां रविशशिचरणं राहु केत्वोः पदं च द्वात्रिंशद्वर्षपक्षानपि गुणगुणितांश्चन्द्रसूर्याग्निभिन्नान् // 103 // इहाधानकाले रजस्त्रिंशद्व्यञ्जनात्मकम्, शुक्रं त्रिंशत्स्वरात्मकम् / अनयोः संयो[134a]गः, आलयविज्ञानाधिष्ठितयोः। अत्र गर्भोत्पादे प्रथमपक्षे त्रिंशद्व्यञ्जनानि 15 ककारादीनि ह्रस्वस्वराधिष्ठितानि, अपरपक्षे दीर्घस्वराधिष्ठितानि, इति व्यञ्जनपक्षद्वयं मरणे प्रकटितं भवति / एवं शुक्रस्याकाशधातुप्रवेशः; रजसि शुक्लपक्षे कृष्णपक्षे पृथ्वीधातुप्रवेशः / एवं रजसोऽप्युद्भूतानुभूतयोः पृथिव्याकाशंधात्वोः शुक्रधातौ प्रवेशः / एवं द्वितीयमास प्रथमपक्षे इकाराधिष्ठितानि व्यञ्जनानि रजसि वायुधातुप्रवेशः, अपरपक्षे T322 ऊकाराधिष्ठितानि उदकधातुप्रवेशः। तृतीयमासप्रथमपक्षे ऋकाराधिष्ठितानि तेजोधातु- 20 प्रवेशः, अपरपक्षे ऋकाराधिष्ठितानि तेजोधातुप्रवेशाय / चतुर्थमासप्रथमपक्षे उकाराधिष्ठितानि उदकधातुप्रवेशाय, अपरपक्षे ईकाराधिष्ठितानि वायुधातुप्रवेशाय / पञ्चममासप्रथमपक्षे लकाराधिष्ठितानि पृथिवीधातुप्रवेशाय, अपरपक्षे दीर्घाकाराधिष्ठितानि आकाशधातुप्रवेशायेति / सृष्टिसंहारभेदेनाकाशादिपृथिव्यादिप्रवेशः शुक्ररजसोः परस्परमिति / तत् इन्द्रिय-कर्मेन्द्रियाधिष्ठानार्थं गुणवृद्धिहादयो ह्रस्वदीर्घा व्यञ्जनेषु प्रवेशं कुर्वन्ति / षष्ठमासस्य पूर्वपक्षा॰ अ, पूर्वपक्षापरार्द्ध ह, अपरपक्षा? आल, अपरपक्षाः ला, सप्तमस्यैवं ए य औ वा, अष्टमस्य अर र आर् रा, नवमस्य ओ वा ऐ या, दशद(म)स्य अल ल आ हा ला, इति त्रिंशद्व्यञ्जनेषु प्रवेशं दशमासैः स्कन्धधात्वायतनादीनां निष्पत्तिरिति गर्भमासादूर्ध्वमिति शुक्ररजःसंयोगः, स्कन्धधात्वायतनादीनां स्फरणं सृष्टिसंहारक्रमेण / एवमेकादशे मासे बिन्दुना त्रिंशदधिष्ठितानि, द्वादशे मासे 30 विसर्गाधिष्ठितानि भवन्ति / अतश्चन्द्रधातुशुक्रधातूनां नाडीमज्जास्ती(स्थी)नामुत्पादपरिच्छेदः / अर्को रजो वृद्धि करोति द्वादशवर्षाणि प्रज्ञायाः, उपायस्य षोडशवर्षाणि, ततो 1. क. ख. शुक्रपक्षे / 2. क. पुस्तके 'मास' इति नास्ति / 3-4. क.ख. अल अल् आ।