________________ 224 विमलप्रभायां [अध्यात्मभूतानां पुनः पूर्वोक्तमिश्रकर्म / तदत्र' वृत्ते न विस्पष्टं कथितम्; तद्यथा-भूतं वा (भूतानां) मिश्रकर्म प्रभवति वचनं मिश्रपैशाचिकं च, धर्मोऽहिंसा च हिंसा खलु गुरु[133a]नियमाज्जीवघातादिदोषः। योगार्थ (यागाद्यर्थर) प्रवृत्तिरिति यो (या)गाद्यर्थमादिशब्दात् संग्रामार्थं हिंसाप्रवृत्तिः, फलार्थ निवृत्तिरहिंसाप्रवृत्तिर्भवति / नरपते 5 वा निवृत्तिः कदाचिदिति / खाद्यं पेयं च मिश्रं रविशशिगमनात मिश्रमार्गः परत्र इति व्यामिश्रमार्गो भूतानां सर्वो वेदितव्यः, इति भूतक्रियानियमः। इदानी मार्ग वक्तुकाम आह ज्योतिरित्यादिनाज्योतिः सूर्याचिरब्धौ(सूर्योऽचिरध्वो) सितदिनमयनं चोत्तरं चार्द्धवर्ष चन्द्रो ज्योतिनिशा चासितमयनमिदं दक्षिणे धूममार्गे / अचिः स्वर्गे सुराणामपि भवति तनौ नागलोकेऽसुराणां व्यामिश्रो मर्त्यलोके भवति नरपते प्रेततिर्यङ्नराणाम् // 101 // . इह खलु त्रिविधो मार्गः-ज्योतिर्मा! धूममार्गो विमिश्रमार्गः। एषु अचिरथे(ध्वो) ज्योतिः सूर्यः। शि(सि)तदिनमयनमुत्तरं दिवावृद्धिलक्षणम् अर्द्धवर्ष बाह्ये, अध्यात्मनि मकरादिषड्लग्नात्मकमिति, उदयास्तमनमिति संज्ञितम् / धूममार्गो ज्योति15 श्चन्द्रो निशा चा शि(सि)तमयनमिदं दक्षिणे'धूममार्गे कर्कटादिकं षण्मासदक्षिणायनम्, यत्र रात्रैर्वृद्धिस्तद् दक्षिणायनम् ; अस्तमनादुदयं यावन्नियम इति / अत्राचिः स्वर्ग सुराणां मार्गगमनाय / असितमयनं धूममार्गो नागलोकगमनायासुराणामिति / व्यामिश्रो दिवारात्रिधर्मा मर्त्यलोकगमने प्रेततिर्यङ्नराणा मुत्पत्तये प्रकटित इति मार्गनियमः, सत्त्वरजस्तमोगुणस्वभावेन पूर्वजन्मवासनाजनितेनेति / 20 इदानीं सत्त्वानां वासनाग्रहमुच्यते श्रावकबौद्धासुरभूतकर्मरतानां यो यन्मध्य इत्यादिना यो यन्मध्ये प्रविष्टो व्रतनियमरतः कर्मपाशैनिबद्धस्तन्मध्ये स्वस्वभावाद् भवति नरपते तत्कुले तद्ग्रहेण / याव[133b]च्चित्तस्य भावस्त्रिविधभववशाद् वेदना सौख्यदुःखं 25 तावत् संसारपोरे भ्रमणमिह नृप स्वर्गम] त्वधश्च // 102 / / इह संसारे जन्म कर्मवासनाबलेन देवासुरभूतक्रियानुरक्तो यो यन्मध्ये प्रविष्टो भवति व्रतनियमरतः कर्मपार्शनिबद्धः, तस्य धर्मस्य क्रियाभिर्बद्ध इति; तन्मध्ये स्व-स्वभावाद् भवति; नरपते इत्यामन्त्रणम् / तत्कुले देवासुरभूतकुले / तद्ग्रहेणेति तद्भावग्रहेण / तेन देवासुरभतकुले जन्मी भवति, सत्त्वरजोतमोहङ्कारेण पूर्वोक्तविधिनेति याव 1. ग. तदनु। 2. ग. यागादिष्वर्थ ; भो. mChod sByin La Sogs Don Du (यागाद्यर्थम्)। 3. क. ख. ग. अचिरथे भो. Lam (अध्व) / 4. क. वा। 5. क. ख. दक्षिणां / 6. क. ख. सुराणां; भो. MirNams (नराणां)।