________________ पटले] . क्षणलक्षण-कालचक्रनियममहोद्देशः 223 त्रिभुवननिलये पौरुष कर्म बौद्धानां ज्ञानं देशयति, क्षितौ प्राकृतं कर्म असुराणां ज्ञानं देशयति / भूतानां विमिश्रं कर्म देशयति पृथिव्यामिति ज्ञानदेशनानियमः। इदानी बौद्धासुरयोभुक्तिकाल उच्यते मध्याह्नावित्यादिनामध्याह्लादर्द्धरात्रं दिननिशिसमये भुक्तिकालस्तयोश्च अन्नं गोमांसभोज्यं बहुविधरसदं पानमण्डस्य शुक्रम् / रक्तं श्वेतं च वस्त्रं रविशशिगतिवत् स्वर्गपातालवासः धर्मोऽहिंसा च हिंसा गुरुनियमवशाद् वज्रर्दैत्यासनं च // 19 // इह प्रतिदिने मध्याह्नदारभ्या रात्रं यावद्दिनसमयम(ः)। अर्द्धरात्रादारभ्य मध्याह्नपर्यन्तं निशिसमयः। तस्मिन् दिननिशिसमये स्वस्वसमयस्य परार्द्ध भुक्तिकालः तयोबौद्धम्लेच्छयोर्यथासंख्यं तपस्विनाम्, न गृहस्थानामिति नियमः। बौद्धासुरयोः पुनः 10 खानपानं य[132b]थासंख्यम् / अन्नं विशिष्टतरं बौद्धानाम्, गोमांससहितं म्लेच्छानाम् / पानं यथासंख्यं बहुविषरसदं मिष्टं बौद्धानाम्, कुक्कुटादीनामण्डस्य शुक्रपानं म्लेच्छानामिति / परिधानं यथासंख्यं रक्तवस्त्रं बौद्धानाम्, श्वेतं म्लेच्छानां तपस्विनाम् ; गृहस्थानां न नियमः। तथा मरणान्ते आवासो यथासंख्यम्, रविशशिगतिवदिति रवेरूद्ध्वं गतिः, चन्द्रस्याधो गतिः, तयोर्गतिवत् स्वर्गवासो रविगतिर्बोद्धानाम्, पाताल- 18 वासोऽसुराणां चन्द्रगतिवदिति / यथा मूलतन्त्रे सेकोद्दे शे' भगवानाह "अधश्चन्द्रामृतं याति मरणे सर्वदेहिनाम् / _ ऊर्ध्वं सूर्य रजो राहु विज्ञानं भावलक्षणे" / * तथा धर्मो यथासंख्यम् / बौद्धानां धर्मोऽहिंसा, म्लेच्छानां हिंसा, चकाराद् भूतानाम् / गुरुनियमवशाद भावनाकाले इष्टदेवतास्तुतिकाले यथासंख्यं बौद्धानां वज्रासनं प्रशस्तम्, 20 म्लेच्छानां दैत्यासनं प्रशस्तम्, चकारादपरं सामान्यमिति तस्य न विधिर्न निषेध इति / अत्र दैत्यानां भूतले वामजानुप्रसारतः, वामजानूद्ध्वं दक्षिणपादः, दक्षिणजानूर्ध्वप्रसारो वामपादोद्ध्वम्, दक्षिणपादश्चकारादधः दक्षिणपाद ऊध्वंम्, पादतलेऽपिचकारात् पृष्ठे कटिनिषण्ण इति वज्रासनादिवक्ष्यमाणे वक्तव्यमिति बौद्धासुरक्रियानियमः। भूतानां मिश्रकर्म प्रभवति वचनं मिश्रपैशाचिकं च धर्मोऽहिंसा च हिंसा खलु गुरुनियमाज्जीवघातादिदोषाः / यागाद्यर्थं प्रवृत्तिर्भवति नरपते वा निवृत्तिः कदाचित् खाद्यं पेयं च मिश्रं रविशशिगमनान्मिश्रमार्गः परत्र // 10 // 1. क. ख. शक्नोद्देशे।