________________ 222 विमलप्रभायां [अध्यात्म पूर्वाभ्यासेन तेनाहरति पुनरपि ज्ञानयोग विशाल लब्धे ज्ञाने प्रयात्यक्षयपरमपदं यत्र जन्मी न भूयः // 97 // [131b] इह मत्ये यदि योगी विद्यायोगमभ्यस्यमानो मरणमुपैति अप्राप्तयोगः कदाचित प्रचलितमनसा श्रीमान् मानुष्यलोके प्रवरमुनिकुले बुद्धबोधिसत्त्वकुले, योगः शून्यताकरुणाभिन्नं विशुद्धतत्त्वं विशुद्धचित्तम् ; तेन युक्त इति योगयुक्तः, न योगपरिपूर्णः पुनः पूर्वाभ्यासेन तेनाहरति अवाप्तो हि ज्ञानयोगं विशालमिति न प्रादेशिकं सर्वाकारमिति भावः। लब्धे ज्ञाने परिपूर्णे प्रयाति अक्षयपरमपदमिति; न विद्यते क्षयो यस्येत्यक्षयपरमपदमिति विग्रहः। किम्भूतं तदित्याह-यत्र पुनर्जन्मी उत्पत्तिमान भवति, तत् सर्वं बुद्धानां पदं परमपदमिति / इदानी बौद्धानामसुराणां म्लेच्छानां ज्ञानोत्पत्तिकाल उच्यते ज्ञान इत्यादिनाज्ञानोत्पत्तिर्जिनानां रविदिनसमये चार्द्धरात्रे निशान्ते मध्याह्न चासुराणां शशिनिशिसमये निर्गमे वासव(र)स्य / सम्यग्ज्ञाने विभङ्गे प्रभवति वचनं संस्कृतं प्राकृतं च शान्तं रौद्रं च कर्म त्रिभुवननिलये पौरुषं प्राकृतं च / / 98 // इह खलु त्रिविधो योगाभ्यासः बौद्ध आसुरो भौत(तिक)श्च / तत्र बौद्धो योगः शून्यताकरुणात्मकः, आसुरः कल्पनाधर्मः, भौतिको द्विप्रकारः, शाश्वतरूप उच्छेदरूपश्च / एवं त्रिविधो योगी (गो) स एव विद्यते यस्य तद्योगाभ्यासरतत्वादिति / तेषु दिवाभागे बौद्धयोगिनां ज्ञानोत्पत्तिः, रात्रिभागे आसुरयोगिनाम्, चतुःसन्ध्यारहिते काले भौत(तिक)योगिनां ज्ञानोत्पत्तिरिति / अत्र कालविभागः ज्ञानोत्पत्तिजिनानां रविदिन20 समये चार्द्धरात्रे निशान्ते, मध्याह्ने चासुराणां शशिनिशिसमये निर्गमे वासव(र)स्य / भौतानामनुक्कत्वादपि सन्ध्यारहितकाले। अत्रार्द्धरात्रे पूर्वसन्ध्यायां वाग्ज्ञानाधिष्ठानं भवति बौद्धानाम् [132a], असुराणां मध्याह्नसन्ध्यायां अष्टङ्ग(स्तङ्ग)तसन्ध्यायां वागज्ञानाधिष्ठानं भवति। भूतानामपरचतुःप्रहरसन्ध्यायां दिवाभागे शाश्वतज्ञानाधिष्ठानम्, रात्रिभागे उच्छेदज्ञानाधिष्ठानम्, अनयोर्बोद्धासुरयोर्यथासंख्यम्; सम्यग्ज्ञानं बौद्धानां T 321 25 भवति, विभङ्गं तद्धर्मविरोधि भवति असुराणाम् / सम्यग्ज्ञानं दिवालोकवत् सर्वदर्शि, विभङ्गज्ञानं रात्र्यालोकवत् किञ्चित् सत्त्वानां जीवमरणदर्शीति / कथं ज्ञायत इत्यत आह-धर्मदेशनया इति, इह सम्यग्ज्ञाने विभङ्ग प्रभवति वचनं संस्कृतं प्राकृतं चेति / सम्यग्ज्ञानोत्पन्नानां संस्कृतवाक्यं सर्वरुतात्मकमिति, विभङ्गज्ञानोत्पन्नानां प्राकृतं वाक्यं भवति देशकानाम् एक विषयभाषान्तरेणेति / शान्तकर्मदेशक बौद्धानां ज्ञानं 30 सर्वसत्त्वकरुणात्मकम्, रौद्रकर्मदेशकं असुराणां ज्ञानं तिर्यक्सत्त्वापकारिमांसभक्षणायेति / 1-2. क. ख. आत्मविषय०; भो. Yul gCig Gi sKad gCig Gi Khyad Par Gyis (एकविषये एकभाषायां भाषान्तरण)।