________________ 221 10 पटले] क्षणलक्षण-कालचक्रनियममहोद्देशः एतेर्बद्धो हि जीवो भ्रमति रसगतो सूक्ष्मभावेन भूयः भावे त्यक्ते प्रयात्यक्षयपरमपदं यत्र जन्मी न भूयः // 95 // इह षड्गतिसंसारे जीवः प्राणालयविज्ञानधर्मी बद्धो भ्रमति / कैः ? []कन्धभूतैः षड्धातुभिरिन्द्रियस्त्रिविषभवभयैः षड्विषयैस्तन्मात्रैः पञ्चकर्मेन्द्रियैश्च कर्मदोषैः शुभाशभैः सह गुण मनसा बचहङ्कारकाद्यैराद्यशब्देन प्राणशक्तिमलप्रकृतिरिति, 5 एतैर्बद्धो हि जीवो भ्रमति रसगतो सूक्ष्मभावेन, भूयः पुनश्च्युत्यानन्देनेति बन्धः सूक्ष्मस्थूलभावो जाग्रत्स्वप्नसुसु(षु)प्ततुर्यालक्षणः / एतस्मिंश्च भावे त्यक्ते प्रयात्यक्षयपरमपदं यत्र गतो न भूयो जन्मी संसारी भवति, इति संसारवासना-अविद्यानियमः / इदानीमस्या विपक्षा विद्योच्यते [वेदः] साङ्ग इत्यादिनावेदः साङ्गो न विद्या स्मृतिमतसहितस्तकंसिद्धान्तयुक्तः शास्त्रश्चान्यद्धि लोके कृतमपि कविभिक्सवैश्वानराद्यैः[131a] / विद्येत्यध्यात्मविद्याऽक्षरमपि मुनिभिः प्रोक्तमेवात्र लोके / त्रैलोक्यं यत्र कृत्स्नं भवति नरपते लीयते यत्र भूयः // 96 // इह संसारे लोकव्यवहारे विद्या या परमार्थतत्त्वविषयेऽविद्या सा। प्रथमं वेदः साङ्ग षड्भिरङ्गः सह, अङ्गानि च सूत्रं गेयं व्याकरणं छन्दो निरुक्ति ज्योतिश्चेति, 15 एभिः सहेत्यर्थः / स च स्मृतिमतसहितः स्मृतयो मन्वादयः, तैः सहितः संयुक्तः / तर्को लौकिकवस्तूप्रमाणशास्त्राणि; सिद्धान्ता लौकिकसिद्धिसाधका मण्डलचक्रादिविकल्प भावनाधर्मास्तैर्युक्त इति विशेषणम् / एवं शास्त्रं चान्यति लोके कृतमपि कविभिासवैश्वानराद्यैरिति व्यासकाव्यं भारतम्, वैश्वानरकाव्यं भावनाधर्मः, आदिशब्देन वाल्मीक(कि)काव्यं रामायणम्, मार्कण्डेयकाव्यं पुराणधर्मादयः संगृहीताः,कृतंकविभिरेभिर्न 20 विद्या / तहि विद्या केत्याह-विद्येति अविकल्पिताऽध्यात्मविद्या शून्यता सर्वाकारैरुपेता, अन्यच्चाक्षरमपि विद्याऽनालम्बिनी अनाश्र(स्र)वसुखात्मिका इति / विद्या हेतुफलात्मिका हेतुफलैकलोलीभूता ग्रः(अग्नि)प्रभा दहनैकलोलीभूतवदिति / मुनिभिरतीतवर्तमानैः प्रोक्तमेवात्र लोके धर्मचक्रस्थैः / किंरूपा सेत्याह-त्रैलोक्यं यत्र कृत्स्नमिति, यस्मात् सुखक्षणात्रैलोक्यं सकलं भवति उत्पादकाले, लीयते यत्र भूयः, मरणकाले यत्र क्षणे 25 लीयते / भावसमूहः क्षरक्षणे स एव क्षणोऽनाश्र(स्र)वसुखमक्षरमुच्यते / यस्माद् बुद्धा उत्पद्यन्ते धर्मचक्रप्रवर्त्तनाय, यस्मिन् महापरिनिर्वाणो(ण) हि नरपत इति विद्यानियमः / इदानीं पूर्वयोगाभ्यासबलमुच्यते योगीत्यादिनायोगीन्द्रोऽप्राप्तयोगः प्रचलितमनसा याति मृत्यु कदाचित् श्रीमान् मानुष्यलोके प्रवरमुनिकुले जायते योगयुक्तः / १-२..भो. Yon,Tan Dai bCas (सगुण) /