________________ 220 / विमलप्रभायां [अध्यात्मभूतत्वं त्रिप्रकारं रजसि तमसि वे सात्त्विकोऽन्योऽन्यमिश्रेयद्भाव मृत्युकाले स्मरति च मनसा सम्भवस्तत्र जन्तोः // 93 // इह संसारे सत्त्वानां स्वकर्मवशात् सत्त्वगुणादिभावस्तद्भावादुत्पादमाह / अत्र मरणकाले शुभकर्मवशात् शान्तो भावो भवति सत्त्वगुणात्मकः, तस्मिन् भावे जाते सति 5 मरणान्ते अमरत्वं भवति / नरपते इति सुचन्द्रसम्बोधनम् / अशुभवशाद् रौद्रभावो' भवति तमोगुणात्मकः, तस्मिन् तामसे भावे नारकत्वं भवति / मध्यमाऽशुभवशाद् राजसो भावस्तस्मिन् राजसे भावे सति तिर्यक्त्वं भवति मरणान्ते। प्रवरभुवितले मानुषत्वञ्च मिश्रे, शुभाशुभसंवलिते मानुषत्वं भवति / भूतलं(त्वं) त्रिप्रकारं रजसि तमसि वै सास्विकेऽन्योन्यमिथे। अत्र सत्त्वाधिके उत्कृष्टाः प्रेताः, रजोऽधिके मध्यमाः, 10 तमोऽधिकेऽधमा' इति / असुरास्तु देवान्तर्वतिन एव; एवं मनुष्याः सत्त्वाधिके सुखिनः, रजोऽधिके दुःखिनः, तमोऽधिके सदादुःखिनः; एवं सर्वत्र स्वर्गादिकेऽपि / अनन्तकर्मफलविपाकः सत्त्वानां स्वकर्मवशाद्भवतीति; अतो यद्भावं मृत्युकाले स्मरति च मनसा सम्भवस्तत्र जन्तोरिति भावोत्पादनियमः / T 320 इदानीं देवादिभेद उच्यते देवत्वमित्यादिना15 देवत्वं चाष्टभेदैः सुरवरनिलये मानुषत्वं यथैकं तियंञ्चोऽब्धिप्रकाराः खलु नरकगतो नारकत्वं तथैकम् / एषु स्थानेषु जन्तुमति रसगतो कर्मपाशैर्निबद्धो नामुक्तो याति मोक्षं परमसुखपदं जन्मलक्षैरनेकैः // 94 // इह सुरवरनिलये स्वर्ग देवत्वं चाष्टभेदैर्भवति; पृथ्वीकृत्स्नेनाप्कृत्स्नेन तेजःकृत्स्नेन 20 वायुःकृत्स्नेन शून्यकृत्स्नेन चन्द्रकृत्स्नेन सूर्यकृत्स्नेन राहुकृत्स्नेनेति भावितेन दानादिपुण्य बलेन दशाकुशलपरित्यागेनेति देवत्वं चाष्टभेदैर्भवति / मानुषत्वं यथैकं ष[130b]धात्वात्मकम् / तिर्यञ्चोऽब्धिप्रकाराः चतुःप्रकाराः। षड्धात्वात्मकम्, नारकत्वं तथैकं नरकगतो षड्धातुवासनोद्भूतं स्वप्नतुल्यमिति / असुरत्वं देवान्तर्भूतम्, प्रेतत्वं नार कान्तभूतम, दुःखोपभोगतः। एषु चतुर्दशस्थानेषु अष्टैक-चतुरेकजातिष जन्तुरालय25 विज्ञानधर्मी' भ्रमति रसगताविति षड्गतौ कर्मपार्शनिबद्धः, नामुक्तः कर्मपाशैन याति मोक्ष परमसुखपदं जन्मलक्षैरनेकैरिति देवादिभेदनियमः, सत्त्वाशयवशादिति / इदानी बन्धहेतुरुच्यते स्कन्धैरित्यादिनास्कन्धर्धात्विन्द्रियश्च त्रिविधभवभयः पञ्चकर्मेन्द्रियैश्च तन्मात्रैः कर्मदोषैः सह गुणमनसा बुद्धयहङ्कारकाद्यैः / 1. क. ख. रौद्रो। 2. क. ख. अधर्मा / 3. क. ख. द्विप्रकाराः / 4. ग. जन्तुरालयविज्ञानधर्माबद्धो।