________________ पटले] क्षणलक्षण-कालचक्रनियममहोद्देशः - 219 इदानीं दुःखसौख्यप्रदातोच्यते आत्मेत्यादिनाआत्मा कर्ता न तत्र प्रभवति नृपते दुःखसौख्यप्रदाता बन्धो मोक्षो न कश्चिद्भवति नरपते चित्तशक्ति विवयं / आकाशं कुम्भमध्ये व्रजति न च जलं नीयमाने च यद्वद् व्योमव्यापी खवज्री विषयविरहितो देहमध्ये च तद्वत् // 91 // 5 संसारे आत्मा कर्ता न तत्र प्रभवति नृपते दुःखसौख्योः (ख्य)प्रदाता, दुःखसौख्यप्रदाता न कश्चिदस्ति त्रिभुवननिलये चित्तशक्ति विवज्यं / चित्तशक्तयोऽत्र जाग्रत्स्वप्नसुसु(षु)प्ततुर्यालक्षणा इति, तासां प्रदाता तुर्या उत्पादनिरोधर्मिण्यवस्था, तां चित्तशक्ति विवर्य नान्यः कश्चिदात्मा कर्ता वा सौख्यदुःखप्रदातेति / बन्धो मोक्षो वाऽपरः [न]' कश्चिदस्ति शुक्रच्युति विहाय सत्त्वानामिति संसारचित्तं विहायेत्यर्थः / निर्वाणचित्तं 10 पुनः संसारातीतं सर्वदेहे स्थितं न बध्यते न मुच्यते केनचित् / आकाशं कुम्भमध्ये व्रजति न च जलं नीयमाने च यद्वद्; व्योमव्यापी खवज्रोति शून्यतादिविमोक्षविशुद्धं चित्तं खवज्रीति; विषयविरहि[129b]तो निर्गुण इति तन्मात्रादिसत्त्वरजस्तमोरहितं जाग्रत्स्वप्नसुसु(षु)तुर्यारहितमित्यर्थः; निःस्वभावो देहमध्ये च तद्वत्; सा(शा)श्वतो भाव उच्छेदोऽभावः, तो न विद्यते यस्य स वज्री विशुद्धचित्तमित्यर्थ इति संसारनिर्वाणचित्त- 15 नियमः। ... इदानी कर्मवाद उच्यते एवमित्यादिना एवं कर्मास्तिवादी भवति स भगवानेकशास्ता न कर्ता सर्वज्ञश्चादिबुद्धस्त्रिभुवननमितः कालचक्री न चक्री / ब्रह्माविष्णुश्च रुद्रः शरणमधिगतो यस्य पादाब्जमूले 20 .तं वन्दे कालचक्रं जिनवरजननं निर्गुणं निर्विकल्पम् // 92 // एवमुक्तेन क्रमेण कर्मास्तिवादी कर्ता [इति] नास्तिवादी नैरात्म्यवादी भवति, स भगवान् विशुद्धचित्तात्मा। "न सन्नासन्न सदसन्न चाप्यनुभयात्मक(:)[मा०का०५,२]", एकशास्ता धातुके न कर्ता / सर्वज्ञश्चादिबुद्धः सर्वज्ञता-सर्वाकारज्ञता-मार्गज्ञतामार्गाकारज्ञता प्राप्तत्रिभुवननमितः कालचक्रो अनाश्र(स्र)वसुखसर्वाकारधर्मो। न चक्री 25 विष्णुः। कुतः ? यतो ब्रह्माविष्णुश्च रुद्रः शरणमधिगतो यस्य पादाब्जमूले, तं वन्दे कालचक्रमिति सोऽहं मञ्जुश्रीजिनवरजननं निर्गुणं निर्विकल्पं पूर्वोक्तलक्षणमिति शून्यतावादिनियमः। [130a]इदानीं मरणान्ते भाववशादुत्पादमाह शान्त इत्यादिना- शान्ते भावेऽमरत्वं भवति नरपते तामसे नारकत्वं 30 तिर्यक्त्वं राजसे च प्रवरभुवितले मानुषत्वं च मिश्रे / 1-2. भो. Ma Yin (न कश्चिदस्ति)।