________________ 218 विमलप्रभायों [अध्यात्मवा फर्तास्ति यच्चित्तमुत्पद्यते तत् कर्मसंज्ञम् / नाहं कर्ता परो वा प्रकृतिविरहितः स्कन्धादिसामग्रीरहितः यच्चित्तमुत्पद्यते तदकर्मसंज्ञमिति / एवं यत् ज्ञायते आत्मपरकर्ता(तृ)ग्रहरहितं तन्न कर्म क; कृतं' न कर्तृहेतुभूतमिति / कर्मणा उत्पाद(:) सामग्रीवशात्, यथा- शालिबीजाच्छालिनिष्पत्तिस्तथा शुभकर्मणा शुभकर्मफलनिष्पत्तिः, 5 यथा कोद्रवबीजात् कोद्रवनिष्पत्तिस्तथाऽशुभकर्मणाऽशुभफलनिष्पत्तिः / 'न स्वतो नापि परत' इति (मा० का० 1,2) वक्ष्यमाणे वक्तव्यमिति कर्मफलनियमः। इदानी कर्ता [2] विना सफलं कर्म उच्यते तस्मादित्यादिनातस्मात् कर्ता न कश्चिद् दह(द)ति न हरति प्राणिनां सौख्यदुःखं संसारे पूर्वकर्म प्रभवति फलदं यत्कृतं त्रिःप्रकारम् / . मूढानां बुद्धिरेषा. दह(द)ति स हरते सृष्टिसंहारकर्ता देहे छिद्रं न पश्यन्त्यपरिमितशुभं हार्यमाणं स्वकाक्षैः / / 89 / / इह संसारे प्राणिनां सौख्यदुःखं कश्चित् कर्ता न ददते' इ(ति) न हरते (ति) यस्मात् पूर्वकर्म स्वयंकृतं प्रभवति फलदं यत्कृतं त्रिःप्रकारम् / तस्मात् कर्ता न कश्चिद् ददति न हरतीत्यथः। मूढानां बुद्धिरेषा ददति स हरते सृष्टिसंहारकर्ता इति / . 15 कस्माद् ? यतः स्वदेहे छिद्र न पश्यन्ति अपरिमितशुभं हार्यमाणं स्वकाक्षरिति / स्वेन्द्रियैर्बाह्ये षड्विषयप्रवृत्तैरध्यात्मनि अनाश्र(स्र)वसुखरहितैः [इति स्वकर्मफलोप-, भोगनियमः। इदानीमिच्छादीनां कर्तुः [129a] परस्परसंयोगभाव उच्यते इच्छेत्यादिनाइच्छाशक्तिः क्रिया या स्वमनसि जगतो ज्ञानशक्तिस्तृतीया भावालोकं प्रवेशं समरसकरणेऽर्थोपलब्धि करोति / भूयस्त्यागं चतुर्थी त्रिभुवननमिताऽद्वया वै क्रमेण तासां मध्ये न किञ्चिद् ग्रसति नरपते मुञ्चते नैव वजी // 90 // इह जगतः सत्त्वानां स्वमनसोच्छाशक्तिर्या भावानामालोकं करोति, प्रवृत्ति' मनसः करोतीत्यर्थः। क्रिया भावेषु प्रवेशं करोति; ज्ञानशक्तिर्भावसमरसकरणेऽर्थो25 पलब्धि करोति, अर्थनिश्चयं ज्ञाननिश्चयमित्यर्थः / भूयस्त्यागं पूर्वज्ञानस्य त्यागं चतुर्थी त्रिभुवननमिताऽद्वया वै क्रमेण करोति, इति मनसः शक्तयश्चतस्रः; तासां चतसणां मध्ये न किञ्चिद् असति / आलोकं प्रवेशं समरसकरणम्, अर्थोपलब्धि ज्ञानत्यागं वा, मुञ्चति नैव वज्रो विशुद्धचित्तात्मा य इति इच्छादिनियमः / 1. क. हृतं / 2-3. क. ख. विनाशफलं / 4. क. ख. दहते; ग. ददते; भो. Byin (ददते)। 5. क. ख. दहति / ६.क. ग्रहतिर्मनसः।