________________ 217 पटले] क्षणलक्षण-कालचक्रमहोद्देशः इदानीं तुर्यादीनां संज्ञाधर्मा उच्यन्ते आयेत्यादिनाआद्याः शून्यानि पञ्च प्रकृतिरविकृतिः श्रोकलाबिन्दुनादं कालश्चित्तं च बुद्धिः प्रकृतिरपि तथान्ये स्वरा मारुताद्याः / स्थूला वर्गाक्षराणि त्रिगुणितदशकं षोडशान्ये विकारास्तेषां मध्ये न वज्रो प्रकृतिरविकृतिापको निःस्वभावः // 87 // 5 [128a] इह संसारे वेद्यवेदकयोः संज्ञाऽर्थप्रतिपादकी(दिका), सा च दाच्यवाचकलक्षनावस्थितेति / अत्र ज्ञानप्रकृतेराद्याः शन्यानि पञ्च, अनाहताद्याः, अनाहतमध्येऽकारशून्यम्, पूर्वे इकारशून्यम्, दक्षिणे ऋकारशून्यम्, उत्तरे उकारशून्यम्, पश्चिमे लकारशून्यम् इति आद्याः शून्यानि पञ्च प्रकृतिरविकृतिः। श्रीकलाबिन्दुनादं कालश्चित्तं च 10 बुद्धिरिति / कला सूर्यः, बिन्दुश्चन्द्रः, नादो राहुः, कालः कालाग्निः, चित्तं बुद्धिरिति / प्रकृतिरपि सुसु(षु) सावस्थाधर्मिणी। अन्ये स्वरा मारतायाः, आदिशब्देनाकाशाद्या इति अ' इ ऋ उ ऋ (C), अए अर् ओ अल् ह य र व लाः। एवं दीर्घा इति स्वप्नप्रकृतिः / स्थूला वर्गाक्षराणि द्वादशमात्रासहितानि षष्ट्युत्तरत्रिशतानि जाग्रत्प्रकृतिरिति / षोडशान्ये विकारा स्थूला इति / प्रत्येकैकाक्षरस्य पञ्चदशस्वरग्रहणेन 15 व्यञ्जनेन सार्द्ध षोडशविकारा इति सर्वत्र पञ्चधातवः पञ्चेन्द्रियाणि पश्चविषया विकारा इति मनसा सार्द्ध षोडश / एषां पृथिव्यादीनां मध्ये वज्री न प्रकृतिन्नविकृतिापको निःस्वभावः, यतः संसारवासनामुक्तः चित्तधर्मी, अतोऽस्ति तच्चित्तं यञ्चित्तमचित्तमिति (अ० सा० प्र० प्रा०, 1) / संसारचित्तरहितं निर्वाणचित्तमपरमस्ति, वज्रीसंज्ञया भगवतोक्तमिति चतुर्विधप्रकृतिनियमः / - इदानीं सत्वानां स्वकर्मफलोपभोग उच्यते संसार इत्यादिना संसारे सौख्यदुःखं प्रकृतिगुणगतं चास्ति तत्कर्मजं च स्थूल सूक्ष्मं च शान्तं (परं च) त्रिविधमपि भवेत् कर्म चैतन्नराणाम् / कर्ता चाहं विकर्म त्वपरपशुपतिः चास्ति कर्तेति कर्म नाहं कर्ता परो वा प्रकृतिविरहितो ज्ञायते तन्न कर्म / / 88 // 25 इह संसारे सत्त्वः सौख्यं वा दुःखं वा सौख्यदुःखं प्रकृतिगुणगतं पूर्वोक्तगुणगतं च स्वयंकृतमित्यर्थः [128b] / अस्ति तत्कर्मजं च स्वकृतकर्मणा जातं कर्मजं भक्त इत्यर्थः / तदेवात्र कायवाञ्चित्तवशात् त्रिविधं स्थूलं सूक्ष्म परं च / त्रिविधं विकर्म कर्म अकर्म / तेषु यत् कर्ताहमिति चित्तमुत्पद्यते तद् विकर्मसंज्ञम् / अपरः पशुपतिरन्यो T319 20 1-2. ग. अ इ ऋउ ल। 3-4. क. ख. अरे / 5. भो. Las Kyi dBai Po INa (पञ्च कर्मेन्द्रियाणि)।