________________ 216 विमलप्रभायां [ अध्यात्म- . इदानी संसारबन्ध उच्यते बध्नात्यात्मेत्यादिनाबध्नात्यात्मा विकल्पैः प्रकृतिगतगुणैः कोशकीटो यथैव आत्मानं चात्मना वै पुनरपि मनसा मुञ्चते निर्विकल्पात् / तस्माद् राजन् स्वकर्म प्रकृतिगुणगतं दुःखसौख्यं करोति कः कर्ता किं करोति प्रकृतिविरहितो मुह्यतेऽज्ञानलोकः / / 85 // इह शरीरे स्कन्धाहङ्कारमात्रः संसार आत्मा, स चात्मानं बध्नाति विकल्पैः प्रकृतिगतगुणैरिति / प्रकृतिः स्कन्धधात्वायतनसमूहः, तत्र गतगुणा उत्पादनिरोधलक्षणा गन्धादयः, संसारचित्तस्य भावाभावविकल्पलक्षणाः, तैः प्रकृतिगतगुणैविकल्पैर्बध्नात्या त्मानं कोशकीटो यथैवात्मानं गुणैः स्वतनुनिर्गतैस्तन्तुभिर्बध्नाति / आत्मानं चात्मना 10 वै पुनरपि मनसा मुश्चते निर्विकल्पादिति पुनः स आत्मा प्रकृतिगतगुर्गविकल्पैर्मुक्तो निर्विकल्पो भवति, तस्मानिर्विकल्पमनसा मुञ्चत्यात्मानं संसारदुःखादिति / तस्माद् राजन् स्वकर्म प्रकृतिगुणगतं दुःखसौख्यं करोति, कः कर्ता किं करोति प्रकृतिविरहितोऽष्टादशधातुरहितो न करोतीत्यर्थः, इति मुह्यतेऽज्ञानलोको मिथ्यात्मकर्तापरिकल्पनयेति कर्मबन्धनियमः। इदानीं पृथिव्यादि-अष्टविधा प्रकृतिरुच्यते पृथ्वीत्यादिनापृथ्वीतोयाग्निवाता गगनमपि मनो बुद्ध्यहङ्कारचित्तं स्थूला सूक्ष्मा परा च त्रिविधगुणगता वर्णबिन्द्वादिभेदैः / [127b] स्थूलास्थूलेन्द्रियेषु प्रकृतिरधिगता सूक्ष्मचित्ते च सूक्ष्मा ज्ञाने च ज्ञानमूर्तिः प्रकृतिरविकृतिः जीवभूता न भूता // 86 // ___ इह शरीरे आदावष्टविधा प्रकृतिः, पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यहङ्कारात्मिकाष्टविधेति संसारचित्तस्य / एषां पुनस्त्रिधा स्थूला सूक्ष्मा परा च त्रिविधगुणगता सत्त्वरजस्तमोगुणेषु गता गुणगता इति वर्णबिन्द्वादिभेदैः स्थूलास्थूलेन्द्रियेषु गता जाग्रदवस्थाधर्मिणी, स्थूला जाग्रद्भावग्रहणादिति स्थूलचित्तस्य जडवासनाग्राहकस्येति / सूक्ष्मचित्तस्य सूक्ष्मा स्वप्नावस्थामिणी, मनोमयेन्द्रियैर्मायोपमभावग्रहणादिति / सूक्ष्मा 25 परा च सर्वेन्द्रियनिरोधलक्षणा सुषप्तावस्थार्मिणी, परा सर्वभावपरित्यागादिति, न पश्यतीत्याहुरेकीभूत इत्यादिलक्षणा / एवं त्रिविधा सत्त्वरजस्तमोभेदेन जाग्रत्-स्वप्नसुषुप्त-धर्मिणी प्रकृतिः, स्थूलादि वा लक्षणा, सूक्ष्मा सन्ध्यालक्षणा, परा महानिशालक्षणा इति / चकारादपरा चतुर्थी प्रकृतिः ज्ञानमूत्तिः; सा ज्ञानचित्तस्य तुर्याचित्तस्य शुक्रच्युतिकाले तुर्यावस्थाधर्मिणी सत्त्वानामुत्पादनिरोधहेतुभूता' यतः, अतो ज्ञानमूर्तिः; 30 सा च प्रकृतिरविकृति वभूता महाप्राणभूता धर्मधातुस्वभावेति / न भूतेति पृथिवी तोयतेजोऽनिलशुक्रभूता न भवतीत्यर्थः / एवं संसारचित्तस्य जाग्रदादिभेदेन चतुर्विधो नियमः प्रकृतेः। 1. क.ख. सत्त्वानामनुत्पादनिरोधः /