________________ 10 पटले ] क्षणलक्षण-कालचक्रनियममहोद्देशः 215 मातृग चन्द्रः शुक्रम् आदित्यो रजः; आदिशब्देन विण्मूत्रसम्भूतानि पृथिव्यप्तेजोवाय्वाकाशधातुसहितान्(नि) असति रजः शुक्राधारस्थितः कायवाञ्चित्तनिष्पादनार्थम्, चन्द्रः शुक्रमीश्वरः, रजः सूर्यः सदाशिवः, मज्जा रुद्रः, मूत्रं विष्णुः, ब्रह्मा विडिति / चन्द्रादित्यादिदेवान् ग्रसति रात्रिभागे उत्पत्तिकाले / भूयः पुनः मुञ्चन्त्यनन्तान् शरीरे नाना- 7318 भावैर॑स्ते सति विकुर्वितान् खलु दिवससमये संहारकाले त्यजतीत्यर्थः / सृष्टिहेतोः पुनर- 5 परोत्पादहेतोर्मुञ्चति, क्रमेण पृथिव्यादिधातुपरित्यागेन नाभिहृत्कण्ठललाटोष्णीषाधारे क्रमेणेति संवृतिकर्तानियमः [126b] / इदानीं कर्मकरणादिकं लोकसंवृत्या उच्यते शब्दाद्यमित्यादिनाशब्दाद्यं कर्मषट्कं भवति हि करणं त्विन्द्रियाणां च षटकं वर्षा मासाश्च पक्षा दिननिशितिथयश्चन्द्रसूर्यौ च कर्ता / एषां संहारकर्ताऽपर इह भवेत् सृष्टिकर्ता न कर्ता व्योमव्यापी खवज्री विषयविरहितो निगुणो निःस्वभावः // 83 // इह शरीरे निष्पन्ने सति शब्दस्पर्शरूपरसगन्धधर्मधातुषट्कं कर्म भवति, करणमिन्द्रियाणां षट्कं श्रोत्रकायचक्षुजिह्वाघ्राणमनःषट्कम् / वर्षा मासाश्च द्वादशराशिभेदेन चन्द्रकलाभेदेन', पक्षाश्चतुर्विंशतिः, दिननिशि अहोरात्रम्, तिथयः पञ्चदश, 15 चन्द्रसूर्यौ च करणमेतत् समस्तम् / कर्ता आलयविज्ञानलक्षणः शुक्रच्युतिक्षणः सहजानन्दो लोकसंवृत्येति / एषां च्युतिक्षणादीनां कर्तृकरणकर्मणः संहारकर्ताऽपर इह भवेत्, यतः सृष्टिकर्ता न कर्ता / ततो व्योमव्यापी खवञी विषयविरहितो निगुणो निःस्वभावः सहजकायो निःकलः सवर्गो व्यापी इति / अतः सृष्टिसंहारकर्ता निर्वाणलक्षणो नास्तीत्यर्थः, इति कर्ता(र्तृ)क्षयनियमः। . इदानीं समुदयादिकमुच्यते गन्ध इत्यादिनागन्धो वर्णो रसः स्पर्श इति च धरणी तोयवह्निश्च वायु अष्टौ वै रूपिणः स्युः समुदितविषया एकमुख्याः समस्ताः / एतत् त्रैलोक्यकृत्स्नं स्फरणनिधनतां याति कालप्रभावात् शब्दः शून्यं ह्यरूपं भवति नरपते धर्मधातुर्मनश्च // 84 // 25 इह संसारे समुदयादुत्पादो नैकधर्मादिति / अत्र समुदयो गन्धो वर्णो रसः स्पर्श इति च धरणी तोयो वह्निश्च वायु[127a]रित्येते ऽष्टौ रूपिणः स्युः समुक्तिविषया एकमुख्याः समस्ताः। एषामष्टरूपिणामेको गुणो मुख्यो भवति; शेषा गौणा भवन्तीति पूर्वोक्तम् / शब्दः शून्यं ह्यरूपं भवति नरपते धर्मधातुर्मनश्चेति चत्वारोऽरूपिणः / अत्र शून्यशब्देन शुक्रधातुरुच्यते / एतत् त्रैलोक्यकृत्स्नं स्फरणनिधनतां याति 30 कालप्रभावाच्च्यतिक्षणप्रभावादित्यर्थः, इति समुदयनियमः / 20 1. ग. पुस्तके नास्ति / 2-3. ग. सर्वव्यापी /