________________ 15 214 विमलप्रभायां [ अध्यात्मकक्षाविष्टं स्तनोवं ग्रहगणसकलं दृश्यते सस्फुलिङ्गं स्तब्धग्रीवा सगात्रा भ्रमणमपि तनौ लक्षणं चाष्टमृत्योः // 81 // इहारिष्टमरणाक्रान्तस्य जिह्वाधः कालसूत्रं कृष्णरेखा भवति, तथा नयने ब्रह्मरेखातिस क्षमा केशप्रमाणरेखा कृष्णरक्तमण्डलभेदिनी भवति, श्वासः चन्द्रार्कमार्गे स्फुरति, द्वे कपोले स्फुरतः। तथैव कक्षाविष्टं स्तनोर्ध्वम्, नाड्यौ कक्षाविष्टौ भवतः, दृश्यते न ग्रहगणसकलं दृश्यते सस्फुलिङ्गम्, स्तब्धग्रीवा तस्य सगात्रा हस्तपादसहिता . निश्चेष्टा भ्रमणमपि तनो भवति लक्षणं चाष्ट मृत्योरेतदुक्तं भवति / अपरमपि यत् किञ्चित् विपरीतं दृश्यते शरीरे बाह्ये वा छायापुरुषादिकं तत् सर्व मरणलक्षणं योगिना वेदितव्यम्, तत् ज्ञात्वा दानादिकं कार्यम् / यदि पुण्यबलेन 10 जीवति, तथापि शोभनम्; अथ मरणं गच्छति, तथापि यद् दत्तं तस्य फलमनुभुङ्क्ते / अतः उभयपक्षतो दानं देयं सौगतैः सुखाथिभिरिति भगवतो नियमः। इति श्रीमूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहसिकायां विमलप्रभायाम अरिष्टमरणलक्षण नाडीच्छेद-महोद्देशः चतुर्थः // 4 // (5) क्षणलक्षण-कालचक्रनियममहोद्देशः इदानीं लोकसंवृत्यां सृष्टिसंहारलक्षणः कर्लोच्यते उत्पत्तिमित्यादिना[126a]उत्पत्ति यः करोति प्रसवनसमय बालकोमाररूपं . संहारः सैव लोके पुनरपि कुरुते कालचक्री न सूर्यः / चन्द्रादित्यादिदेवान् ग्रसति स भगवान् रात्रिभागे सभूतान् भूयो मुञ्चन्त्यनन्तानपि दिनसमये सृष्टिहेतोः क्रमेण // 82 // इह संसारे यः च्युतिक्षणः सत्त्वानामुत्पत्ति करोति रजःशुक्रसंयुक्तम् आलयविज्ञानधर्मी गर्भे; ततो गर्भासे (शये) प्रसवनसमयं करोति, बालकौमारादिरूपं करोति; शरीरस्य सृष्टिसंहारं(:)स एव्य(व) च्युतिक्षणो' लोके स्वर्गमर्त्यपाताले पुनरपि कुरुते कालचक्रो न सूर्यः। सूर्यो रजः चन्द्रः शुक्रम् आलयविज्ञानेन विना कालचक्रेण 25 [कालचक्रेण] विना न करोतीत्यर्थः। इह कस्मान्न करोति ? रजःशुक्रधर्मी सूर्यचन्द्र इति / इह सर्वत्राग्निसूर्यसोमात्मकं जगदिति प्रसिद्धं वाक्यमित्युच्यते / इह यतश्चन्द्रावित्यादिदेवान् प्रसति स भगवान् रात्रिभागे सभूतानिति इह संसारे रात्रिभागश्चन्द्रः सृष्टिः, दिवाभागः सूर्यः संहारस्तान् / अत्र रात्रिभागे उत्पत्तिकाले स आलयविज्ञानलक्षणो' १.ग. अरिष्ट; भो. Dod(इष्ट) / 2. क.ख. मूलतन्त्रा० / 3. ग. पुस्तके नास्ति / 4. ग. विमलप्रभाटीकायां / 5. ग. लघुकालचक्रतन्त्रराजस्यारिष्ट / 6. ख. बालकौमारी०। 7. क. ख. च्युतिकरणो। 8. ग.. लक्षणे। . 20