________________ 213 पटले ] अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः पूरयित्वा[125a] बोधिचित्तरजो धर्मी प्राणापानौ पूरयित्वा योगिनेति नियमो बुद्धस्य भगवतः। इदानीं मूत्रादिधातुविकारलक्षणमुच्यते अरिष्टवशात् छिन्नेत्यादिनाछिन्ना यद्येकनाडी भवति नरपते मूत्रमम्बुत्व(अम्लत्व)मेति तन्मात्रान् पञ्चरात्रांस्त्यजति परकला पिण्डविच्छेदकाले / शब्दं कर्णे रसञ्च त्यजति खलु मुखे तारकामक्षिमध्ये गन्धं घ्राणे नराणां करचरणतनो चोष्णभावं क्रमेण // 79 // इह शरीरे छिना योकनाडी वामा दक्षिणा वा प्राणप्रवाहरहिता भवति; नरपते इत्यामन्त्रणम्; मूत्रमम्बुत्व(अम्लत्व) 'मेति षण्मासावधेः। तन्मात्रान् पञ्चरात्रान् त्यजति परकला प्राणशक्तिः षड्दिनावधेर्यथाक्रमम्, प्रतिदिने पिण्डविच्छेदकाले 10 शब्दविषयं कर्णात् त्यजति, कणं इत्यागमपाठात् पञ्चम्यर्थे सप्तमीति; रसं च त्यजति खलु मुखे जिह्वाया इति पञ्चदिनावधेः; तारकामक्षिमध्यात् चतुर्दिनावधेः; गन्धं घाणात् त्रिदिनावधेः; नराणां करचरणतनावुष्णत्वभावः स्पर्शभावः द्विदिनावधेः; अन्तदिने धर्मधातुं शुक्रच्युतिं त्यजति श्वासचक्रं चेति / अपरषड्दिनाभ्यन्तरे मृत्युलक्षणमुच्यतेनासाग्रं लम्बमानं शिरसि धृतभुजो दृश्यते तत्स्वरूपं लाक्षारागप्रघृष्टोऽप्युभयकरतले नैव रागं करोति / आदित्यः कृष्णवर्णः परिणतशशभृद् दृश्यते पीतवर्णः मूत्रं देहश्च शीतो भवति नरपते तद्दिने मृत्युरेव // 80 // इह शरीरे मरणे प्रविष्टे स्वकीयं नासानं लम्बमानं हस्ति कराकारं दृश्यते; 20 शिरसि धृतभुजः स्वकीयं तत्स्वरूपं द[125b]श्यते, न सूक्ष्मो दृश्यते; तथा लाक्षारागप्रघृष्टोऽप्युभयकरतले नैव रागं करोति करतलचर्मणि; आदित्यः कृष्णवर्णो दृश्यते, परिणतशशभृत् पूर्णिमाचन्द्रो दृश्यते सम्पूर्ण पोत इति षड्दिनावधेः; ततो यस्मिन् दिने मूत्रं देहश्च शीतो भवति, तदिने तस्मिन् दिने मृत्युरेव / नरपते इत्यामन्त्रणम् / अपरमपि षड्दिनाभ्यन्तरे मृत्युलक्षणमुच्यतेजिह्वाध: कालसूत्रं प्रभवति नयने ब्रह्मरेखातिसूक्ष्मा श्वासश्चन्द्रार्कमार्गे स्फुरति नरपते द्वे कपोले तथैव / 1. ग. अमृतम्; भो sKur Ba Nid ( अम्लत्वम् ), भोटानुसारं अम्बुत्वस्थाने अम्लत्वपाठः सम्यक् प्रतीयते / 2. क. ख. हस्त / 3. ख. पुस्तके 'तेन सक्ष्मो दृश्यते' इत्यधिकः पाठः / 4. क. ख. स पूर्वः / 28