________________ 212 विमलप्रभायां [ अध्यात्म 5 मिति / चकारात् सपादषट्पञ्चाशत्पाणीपलोनमिति / भूयः पुनः प्रतिदिनहानिना(न्या) मासद्वयेनापरमपि दिनं चतुःषष्टिदिने ऋणं भवति, पुनवर्द्धते वर्षयोगात् / पूर्णेऽब्दे षड्दिनं स्यात्, पूर्वोक्तविधिनोनम्, अपरमपि तथा वद्धते मृत्युसीम्नः, मृत्युसीम्नो वर्षशतम्; ततो मृत्युसीम्नः सार्द्धद्वाषष्टयधिकशतपञ्चकं दिनगणं ऋणं वद्धते / एवं सूर्यस्य राजन् द्विगुणमृण'मिदं वद्धते वर्षशतान्(वर्षात्) नृत्युसीम्नः पञ्चविंशत्यधिक-एकादशशतदिनगणं वर्द्धते मृत्युसीम्न इति ऋणनियमः। इदानीं श्वासादिभेदेन वर्षसंख्या उच्यते षट्वासरित्यादिनाषट्श्वासरेकलिप्ता प्रभवति घटिका षष्टिपाणीपलेश्च षष्टीनाड्यो दिनं स्यात् त्रिगुणितदशभिर्वासरेसिमेकम् / [124b] षण्मासैश्चायनं स्याद् द्विगुणितमयनं वर्षमेकं प्रसिद्धम् आयुः पुंसां शताब्दादृणगतिषु गतं कालनाडीवशेन / / 77 // इह शरीरे मनुष्याणां श्वासप्रश्वासैः षड्भिरेकलिप्ता भवति, सा च पाणीपलमुच्यते / तैः षष्टिभिः पाणीपलेरेकघटिका भवत्येकदण्डात्मिका ताः षष्टिनाड्यो दिनमहोरात्रं स्यादिति, तैर्दशभिस्त्रिगुणितैस्त्रिशत्मासमेकं वासरैरिति / तैः षण्मासैमकरादिभिरयनमेकं भवति / तदेवायनं द्विगुणितं वर्षमेकं प्रसिद्धम् / अतः शताब्दायुः पुंसामृणगतिषु गतं तमोनाडीगतिषु गतं कालो मृत्युस्तस्य नाडीवशेनावधूतीसंख्याधर्मेणेति कालनाडीनियमः। इदानीमीश्वरादीनां कुशीदत्वमुच्यते त्रैलोक्य इत्यादिनात्रैलोक्ये नास्ति योगी सुरभुजगनृणां पूरितुं यः समर्थश्चन्द्रादित्यौ स्वदेहे चरति दिनगणं नैव चन्द्रस्वचारैः / . सूर्यश्चऑणि सर्वाणि चरति भुवने वर्षमध्ये क्रमेण वर्षे वर्षे त्वृणेन असति सभुवनं कालचक्र कवीरः // 78 // ___ इह त्रैलोक्ये सुरभुजगनणां मध्ये योगी नास्ति यः समर्थः पूरितु चन्द्रादित्यौ स्वदेहे / तत् कस्माद्धेतोः ? यतः स्वचारैश्चन्द्रः षष्ट्युत्तरत्रिशतदिनगणं न चरति वर्षा25 वधेः सूर्यश्चाणि सर्वाणि सप्तविंशन्न चरति भुवने शरीरे वर्षमध्ये क्रमेण पूर्वोक्तविधिना; अतः प्रतिवर्षात् प्रतिवर्षे ऋणेन प्रसति सभुवनं शरीरम् / कालचक्रकवीर उत्पादक्षयहेतुभूतः [सं]सारिणां कालचक्रकवीरः; अतः स साधनीयश्चन्द्रार्की 20 १.क. ख. भो. पुस्तकेषु 'ऋणं' इति नास्ति / 2. क. दण्डास्मिना / *. अत्र क. पुस्तके 'इह शरीरे मनुष्याणां श्वासप्रश्वासैः षभिरेकलिप्ता भवति का' इति पुनलिखितः।