________________ ज्ञानं ज्ञेयश्चैकमूर्तिः, तद्धि प्रज्ञा, सा च निराकारा साकारेति उभयथा परिचीयते / इत्थंभूतया निराकारया साकारया च प्रज्ञया अक्षरसुखरूपं परमादिबुद्धतत्त्वं समालिङ्गितमास्ते / इदं चाक्षरसुखं लौकिकालौकिकभूमौ अनन्तसौख्यादिप्रकारैः मण्डितम्, अथ च उत्पत्तिविनाशरहितम् / एषा सा प्रकृष्टा भूमिः या बुद्धानां बोधिसत्त्वानां जन्मभूमिः कर्मभूमिश्च / एतत् सकलमपि तत्त्वदृशा अद्वयमेव / एतद्धि तत्त्वं निर्माणसम्भोगधर्मकायैः विदितम्, अथ च अतोतानागतप्रत्युत्पन्नकालैश्च संविदितं भवति / एतत् सकलं लक्षणजातं संहृत्य अस्मिन् कालचक्रयाने आदिबुद्धत्वेन वा परमादिबुद्धत्वेन वा उपस्क्रियते। सुविदितमेव तन्त्रविदां विदुषां यत् पूर्वोक्तलक्षणानुलक्षणमण्डितं तत्त्वं न कश्चिद् देवो वा देवातिदेवो वा, तद्धि तत्त्वं विशिष्टं योगभूमिमात्रम्, तदेव परिचाययितुं अस्मिन् तन्त्रे षोडशाकारभेदभिन्नो वज्रयोगः। अतः कालचक्रमित्युक्तः। अस्यैव श्रीकालचक्रस्य वज्रयोगस्य संवृति-परमार्थसत्याभ्याम् अभिधानं सकलेऽस्मिन् तन्त्रे विधीयते / केनचित् पाण्डित्याभिमानिना विदुषा आचार्येण वा एतत्तत्त्वं व्याकर्तुं न शक्यत इति मत्वा विमलप्रभाकार आत्मानं लोकनाथमिति मत्वा मञ्जुश्रिया चोदितं सुगतव्याकृतं च वज्रयोग महामुद्रापरपर्यायं व्याख्याति / उक्तं टीकायाम् "अस्य श्रीकालचक्रस्य वज्रयोगस्य सर्वतः / सत्यद्वये स्थितस्यास्याभिधानं वाचकं भवेत् // अस्मिन् तन्त्रे मया टीका सुगतव्याकृतेन वै / मञ्जुश्रीचोदितेनैव लोकनाथेन लिख्यते" ॥इति। अयं च वज्रयोगः सत्त्वव्याख्यानदृष्ट्या वज्रसत्त्वः। स च ज्ञानज्ञेययोरद्वयः, किन्तु चतुर्भिर्योगैः समन्वितः सन् चतुर्धा स्फुटो भवति / तत्र चत्वारो योगाः शुद्धज्ञानकयोगः, चित्तधर्मं योगः, वाक्सम्भोगैकयोगः, कायनिर्माणयोगश्च / एनामेव अशुचिदेहप्रतिमामाधाय एतैरेव योगचतुष्टयैः जिनरत्नप्रतिमा विदधति, तद्वशाच्च अयं सम्पूर्णो मानवदेह एव वज्रसत्त्वायमानः सहजां सत्त्वार्थक्रियां करोति / अत एवायं देहो महासुखावासोऽपि कथ्यते। इदमेव च वज्रसिंहासनम्, अच्छेद्याभेद्यमण्डलविधानात् / अत्रैव च “एवं"-कारोऽपि, यतो हि एकारे आकाशधातौ काय-वाक्-चित्त-ज्ञानात्मकस्य "व"-कारस्य योगो भवति / वज्रसत्त्वस्येदमधिष्ठानं बुद्धरत्नकरण्डकत्वेनापि व्यवह्रियते परमाक्षरसुखरूपत्वात् , इदं बुद्धरत्नं वज्रमणि-पद्माभ्यां समवेतत्वान्मञ्जषाभतं करण्डकमिव / तदेव उद्घाटितं भवति एतेन तन्त्रराजेन श्रोकालचक्रेण / एतद्धि करण्डकं स्वस्मिन् लौकिकलोकोत्तरसत्यद्वयम् आश्रयति / सत्त्वानां लौकिकसिद्धिसाधनाय मण्डलचक्रविकल्पभावनाः क्रियन्ते / अयमेवोत्पत्तिक्रमः / अयमेव च केवलं लौकिकदृष्ट्या सत्यम् / धूमादिनिमित्तमाश्रित्य प्रवर्तितेन निर्विकल्पचित्तेन उत्पत्तिविरहितेन मुखभुजवर्णसंस्थानादिकल्पनारहितेन महामुद्रासिद्धिः क्रियते / अयमेवोत्पन्नक्रमः सहजो निर्विकल्पो वज्रयोगो यः कालचक्रतन्त्रस्य प्रमुखं प्रतिपाद्यम् / इत्थं कालचक्रतन्त्रं नाम प्रज्ञोपायात्मको योगो यो मया पूर्व संक्षिप्य लिखितः / तत्र कालः करुणाशून्यताभ्यां निर्मिता मूर्तिः, या सत्यदृष्ट्या संवृतिरेव / शून्यता च चक्रम् / अथ च कालो महासुखलक्षणः परमाक्षरः, तेनोत्पादितं स्कन्धधात्वादिकम्, किन्तु ( will )