________________ कालचक्रतन्त्रस्य वैशिष्ट्यं वज्रपदसंनिवेशेनापि प्रकटितं भवति / लोकसंवृत्या परमार्थतश्च द्विधा वज्रपदमभिधीयते। तत्र प्रथमं लौकिकसिद्धिदायकम्, अपरं महामुद्राफलसिद्धिदायकं भवति / विदित एव योगियोगिन्यादितन्त्रभेदैः उद्देश-निर्देश-प्रतिनिर्देश-महानिर्देशादिप्रकारेस्तन्त्राणां व्याख्यानभेदः। एतैः सर्वविधैरेव प्रकारभेदैर्वज्रपदमेव प्रकटितं भवति / उक्तं च विमलप्रभायाम् ___'अस्मिन्नादिबुद्धे वज्रपदं प्रकटमुद्देश-निर्देश-प्रतिनिर्देशैर्भगवता प्रकाशितम्, अस्यैव साधनाय महामुद्राभावना धूमादिनिमित्तमार्गः प्रकाशितः" इति / (वि० प्र० उपोद्घाते, पृ० 19) / ___ अयं च वज्रयोगो महामुद्रायोगेन सम्यग् आकलितो भवति / महामुद्रया च सहजं तत्त्वं नितरां निबद्धमास्ते। अत एव सहजमुद्रेति महामुद्राया अपरं नाम / मुदं हर्ष लाति राति वेत्यभिधया सामान्येन कर्ममुद्रा ज्ञानमुद्रा च गृह्यते। महामुद्राया इदं महत्त्वं यत् तत्र फर्ममुद्रा परित्यक्ता ज्ञानमुद्रया च सा रहिता भवति / एतादृशम् आलम्बनम् अधिगत्यैव केवलं प्रज्ञाकरुणयोर्योगाद् अनालम्बनं सहज तत्त्वम् अधिगतं भवति / एतत् सकलं सौख्यपरिपूर्ण सद् अवतिष्ठते / प्रयोगक्रमेण महामुद्रा साधकैरधिगता क्रियते। प्रयोगबुद्धया सा यद्यपि साधकैरुत्पाद्यते, तथापि न उपादानकारणत्वेन किञ्चिद् आध्रियते वा अपनीयते वा। परमाण्वादिकारणसामग्रीभिरतोऽप्यन्विता च न भवति / अत एव सा सर्वाकारा सर्वलक्षणव्यञ्जनानुव्यञ्जनैः समन्विता च सती प्रतिबिम्बनिभा प्रतिसेनोपमा मात्र जायते / प्रतिसेनोपमात्वेनैव इयं स्थितिः बुद्धत्वमधिकरोति / अस्य प्रयोगस्याधिष्ठानं चित्तमेव / तदेव बोध्यावाहकत्वाद् बोधिचित्तमित्युच्यते / अत्रेव प्रज्ञोपायात्मको योगः अनेकैः संवरः रक्षितः काय-वाक-चित्त-ज्ञानैः ऐक्यं भजते / अथ च महामुद्रात्मकं गन्धर्वनगराकारं "एवं"-कारस्वरूपं ज्ञानज्ञेयाभिन्नं अद्वयम अक्षरसुखमनुभूयते / प्रयोगावस्थायां एतस्य एक स्थानं वज्रमणौ अर्करूपे रजसि, द्वितीयं च शशिभूते उष्णोषशुक्रे अधिगन्तुं युज्यते / एतत्सर्वमपि अद्वयं सखजातं अस्मिन्नेव देहे प्रकटं भवति / तदानीम् अयमेव वज्रधरस्य बुद्धस्य देहो भवति / यथा बहिः सूर्यप्रचारेण दण्डपलादिविभागः क्रियते, तथैवाध्यात्मनि प्राणसंचारेण विभागः क्रियते / स च चक्राश्रित एव / अत एव एतत् सकलं कालचक्रशब्देन ख्यापितं भवति / अस्मिश्च देहे कायत्रयं चक्ररूपेण संस्थितम् / एतेषां परिज्ञानमेव महासखचक्रम् / इत्थं यथा बाह्ये सूर्यो द्वादशराशिषु वर्षसंक्रान्तिभेदेन भ्रमति, तथाध्यात्मनि प्राणशक्तिः प्रतिदिनं द्वादशराशिषु द्वादशसंक्रान्तिभेदेन भ्रमति / एवंक्रमेण प्रज्ञोपायात्मकस्य आदि बुद्धस्य स्वदेहे ज्ञानं भवति / अत एव इहैव जन्मनि बुद्धत्वं लभ्यम् / कालचक्रतन्त्र'. योगस्य माहात्म्यं ख्यापयता विमलप्रभायामुक्तम्-"इह त्रैलोक्ये सुरभुजगनृणां मध्ये योगी नास्ति यः समर्थः पूरयितुं चन्द्रादित्यौ स्वदेहे' इति कालचक्रैकवीर एव तथाविधः। कालचक्रस्य गभीरं तत्त्वं महामुद्रासाधनमिति पूर्वमुक्तम् / तदीयं किं हार्दमिति सप्रमाणं प्रकाशयितुं ग्रन्थटोकानुरोधो नितरामपेक्षितः / सम्पूर्णकालचक्रतन्त्रं साक्षात् परम्परया वा अद्वयवादमेव प्रथयति / तद्धि शून्यताकरुणास्वरूपम्, अथ च तस्मिन्नेकस्मिन् ( xvii ) .