________________ सौख्यं लभ्यते, यच्च दुःखस्यैव निदानम् / मोक्षप्राप्तिकामनया साम्राज्यसुखं प्राप्तोऽपि विद्वान् तत्त्यजति, अविद्वांश्च संसारसुखमप्राप्तोऽपि निरन्तरं तदर्थ चेष्टते। अस्ति चास्य तन्त्रस्य लक्ष्यमनक्षरसुखावाप्ति म / एतदवाप्तुमेव प्रज्ञाज्ञानेन संवलितं नितान्तं च परिशुद्धं सच्चित्तमपेक्षितं भवति / अत एव कालचक्रतन्त्रानुरोधेन ज्ञानाग्निना चित्तस्य मलमात्रं सर्वं दग्धं भवति, न च दग्धं भवति तस्य प्रभास्वरत्वम् / अत एवानुत्तरायां भूमौ तथाविधं चित्तमुत्पादयितव्यं यद् वज्रपदेनाकलितं मन्यते / अस्मिन् कर्मणि चास्ति मानवानां देहस्यापि माहात्म्यम् / यतो हि तत्र सामान्यतया विशिष्टं चित्तं नावाप्तुं शक्यते, किन्तु भावनोपायैरनेकविधस्तदवाप्तुं शक्यते / यथा काष्ठस्थोऽपि वह्निः नैव सुतरां दृश्यते, स एवारणिपाणिमन्थनाद् दृश्यो भवति, तद्वदेव देहस्थललनारसनानाड्योरेकयोगेन प्रबलश्चित्ताभासो लब्धं शक्यते / देहस्य माहात्म्यं ख्यापयता देह एव कालचक्रमिति व्याख्यातम्, यतो हि कालो महासुखलक्षणः, तेनोत्पादितं भवति निरावरणं स्कन्धधात्वायतनादिकम्, तदेव योगिनः शरीरं चक्रमिति / अतो हि पृथिव्यादिकं समस्तं स्व-स्ववर्णैरस्मिन् शरोरे ज्ञातव्यं भवति / सुविदितमेव तन्त्रेषु उत्पत्तिक्रम उत्पन्नक्रमश्चेति तन्त्रसाधनार्थम् / उत्पत्तिक्रमे च सन्ति क्रिया-चर्या-योगानां विशेषेण प्रयोगाः, तत्र देहस्य माहात्म्यं सुविदितम् / तत्रोत्पन्नक्रमस्तु नितान्तं प्रज्ञास्वभावो महामुद्रायोग एव सः। कालचक्रतन्त्रसाधनया स एवोत्पन्नक्रमयोगः सम्पन्नो भवति / विमलप्रभाकारेणायं कालचक्रयोगः सुविशुद्धक्रमयोगनाम्नाऽभिहितः, अन्यक्रमेभ्यश्वास्य वैशिष्ट्यमपि ख्यापितम् / तन्मतेनायं वीरक्रम-स्वाधिष्ठानक्रमाभ्यां भिन्नः सुविशुद्धिक्रम एव / इदं कालचक्रतन्त्रस्य स्वकीयं प्रस्थानम् / वीरक्रमे प्राणक्षयमात्र न बाह्यदेहादिकमवलम्ब्य योगः। स्वाधिष्ठानं च केवलं शून्ये धातुकदर्शनम् / अतो हि बुद्धर्मोक्षायान्यतमो मार्गः सुविशुद्धक्रम एव सन्दर्शितः। सुविशुद्धक्रम एव प्रज्ञोपायात्मकं तन्त्रम् / तदप्यद्वयमानं न तत्र द्वैतलेशोऽपि / अत एव चेदं तन्त्रं निरन्वयम् / द्वैते प्रज्ञापक्ष उपायपक्षश्च सान्वयः, किन्त्वस्मिन्नसौ निरस्तः / अत एव प्रज्ञोपायात्मकं योगतन्त्रं नामाद्वयतन्त्रम् / अस्मिन्नद्वययोगतन्त्रे योगशब्दो नोपायार्थवाचकः, नापि प्रज्ञार्थवाचकः, अपि तु प्रज्ञोपायार्थवाचकः / स चाद्वयसमापत्तावेव सम्भवति / एतदर्थजातं प्रमाणीकतु विमलप्रभायां तथागताभिप्रायोऽप्युदाहृतः योगो नोपायकायेन नैकया प्रज्ञया भवेत् / प्रज्ञोपायसमापत्तिर्योग उक्तस्तथागतैः // (वि० प्र० उपोद्घाते, पृ० 18) एतदेवोपसंहरतोक्तं विमलप्रभाकारेण "अतो यस्मिन् तन्त्रे प्रज्ञोपायात्मकोऽभिधेयो भवति, न तत्तन्त्र प्रज्ञातन्त्रं नोपायतन्त्रं परमार्थतः / लोकसंवृत्या दशज्ञानादिभेदेन धातुस्कन्धविशुद्धितः प्रज्ञोपायपक्ष उक्तो मृदुसत्त्वाशयवशात् तथागतेनेति / तस्मात् प्रज्ञोपायात्मकं तन्त्रं योगतन्त्र निरन्वयं कालचक्रं परमार्थसत्यत इति / " (वि० प्र०, पृ० 18) / ( xvi )