________________ सर्वसत्त्वानुपकतुं तथागतमध्येषितवान् / तथागतेनापि सोतानद्युत्तरे शम्भलादिषु षण्णवत्यादिग्रामनिवासिनां चित्तविशुद्धिं दृष्ट्वा वज्रपदप्रकाशकं द्वादशसाहस्रिक तन्त्रं देशितम् / इत्थमेव द्वादशसाहस्रिकात् तन्त्राद् लघुतन्त्रकरणाय वज्रकुलाभिषेकं प्रदाय तथागतेन मञ्जुश्रीाकृतः। वज्रकुलाभिषेकवशात् सर्ववर्णानाम् एककल्ककरणेन सूचन्द्रो यशः कल्कोति नाम्ना ख्यातः। यत्प्रक्रियानुरोधेन यशः कल्की जातः, तथैव पुण्डरीकोऽपि द्वितीयः कल्को / वज्रकुलजातत्वाद् यथा यशो वज्रकुलो तथा पुण्डरीकोऽपि / अनन्तरमस्मिन्ननेके कल्किनो वज्रकुलिनश्च जाताः, ये बुद्धमार्गप्रदर्शका अभूवन् / तत्र चन्द्र-सुरेश्वर-तेजी-सोमदत्त-सुरेश्वर-विश्वमूर्ति-सुरेशान-यशः-पुण्डरीक-सूर्यप्रभ-सुचन्द्र-क्षितिगर्भ-यमान्तक-जम्भक-मानक-खगर्भ-लोकनाथ-यमादि-दशक्रोधप्रभृतयः सर्वे निर्मिताः सन्तो बुद्धमार्गप्रदर्शका भवन्ति / इत्थमेव त्रयोदशसंख्याकाः कल्किगोत्रे जाताः, तत्र यशः कल्की, कल्की पुण्डरीकः, भद्रकल्की, रक्तपाणिः, विष्णुगुप्तः, अर्ककीर्तिः प्रमुखाः। मन्ये, एतावन्ति नामानि न केवलं रहस्यभूतानि, अपि तु इतिहासदृशा गवेषणीयानि सन्ति / . भाषासम्बन्धिनो विचारा:-तन्त्राणां भाषाविषयेऽपि विमलप्रभाकाराणामस्ति मतविशेषः। यद्यपि तन्त्रशास्त्राणां ग्रथने सर्वत्रैवार्थदृष्ट्या यथा गाम्भीर्य तथा व्याकरणदृष्ट्या भाषाशैथिल्यं दृश्यते / विशेषतो बौद्धा आदित एव अर्थशरणा आसन्, न शब्दशरणाः, तथापि विमलप्रभाकारैः सप्रसभं शब्दशरणत्वं खण्डितम् / भगवद्वचनान्युद्धृत्योट्टङ्कितं तेन येन येन प्रकारेण सत्त्वानां परिपाचनम् / तेन तेन प्रकारेण कुर्याद् धर्मस्य देशनम् / / योगी शब्दापशब्देन धर्म गृह्णाति यत्नतः / देशशब्देन लब्धेऽर्थे शास्त्रशब्देन तत्र किम् / / ... एतादृशानि समर्थनावाक्यान्युदाहृत्य बुद्धदेशनाभाषावैविध्यं चोल्लिख्यान्ते स्वाभिमतं प्रकटोकृतम्-"क्वचिद् वृत्तेपशब्दः, क्वचिद् वृत्ते यतिभङ्गः, क्वचिद् वर्णस्वरलोपः, क्वचिद् वृत्ते दीर्घो ह्रस्वः, ह्रस्वोऽपि दोघः, क्वचित् पञ्चम्यर्थे सप्तमी, चतुर्थ्यर्थे षष्ठी, क्वचित् परस्मैपदिनि धातावात्मनेपदम्, आत्मनेपदिनि परस्मैपदम्, क्वचिदेकवचने बहुवचनम्, बहुवचने चैकवचनम्, पुंल्लिङ्गे नपुंसकम्, नपुंसके पुंल्लिङ्गम्, क्वचित् तालव्यशकारे दन्त्यमूर्धन्यौ, क्वचिन्मूर्धन्ये दन्त्यतालव्यौ, क्वचिद् दन्त्ये तालव्यमुर्धन्यौ चे"त्यादि-सन्दर्भवाक्यैः। किमत्र बहु वक्तव्यम्-एतत् सम्पादितं सविमलप्रभकालचक्रतन्त्रपुस्तकमेव प्रमाणं सुधोभिरवधेयम् / व्याकरणवासनावासितचित्तानां सम्पादकानां समक्षमपि संस्करणकृत्यमेतद् भाषादृष्ट्याऽपि किश्चिद् दुःसहं भवति / तत्त्वसम्बन्धिनो विचारा:-अस्य कालचक्रतन्त्रस्य परमाभिधेयमाविष्कुर्वता 'मुद्रायोग' एव तावत् प्रधान इति विमलप्रभायामुक्तम् / एतच्च महामुद्रापदं चतुर्थं परमाक्षरम्, तदेव प्रज्ञाज्ञानं चोच्यते / एतच्चतुर्थमक्षरतत्त्वं येन न लब्धं तेन सक्षरमेव (xv )