________________ अनेकाश्छिन्नं वर्तते, तथापि महत्वाचायकः कश्चित् संकेलो लभ्यते / उदृङ्कितं च तत्र 'शकाब्दः 1091 म्लेच्छवर्ष..."शुद्धवर्ष 364 अशुद्धमासगणं 4368 शुद्धमासगण 4502 इत्यादि / उपरि समुद्धृतं 'वह्नौ खेऽब्धाविति श्लोकं स्पष्टीकुर्वति कालचक्रानुसारिगणितग्रन्थे योगभागादिप्रकारः प्रदर्शितः, तदनुरोधेन म्लेच्छवर्ष-विक्रमीय-संवत्सरयोरन्तर 680 वर्ष पर्यवस्यति / ज्ञायते च विक्रमीय 679 श्रावणे हिजरीसंवत्सरः प्रारभ्यते / इत्थमनायासेनावबोद्धं शक्यते यद् वर्षद्वयस्यान्तरेण हिजरीसंवत्सरप्रारम्भकाल एव कालचक्रविमलप्रभोक्तो म्लेच्छकालः / विमलप्रभानुसारम् अस्मिन्नेव म्लेच्छवर्षे 'म्लेच्छो मधुमती (मुहम्मदः) रह्मणावतारो (रहमानावतारो) म्लेच्छधर्मदेशको म्लेच्छानां तायि(जि)नां (ताजिकानां) गुरुः स्वामी' (वि० प्र० 1.27, पृ० 78) / एतदनुसारं निर्धारित एव काल: किञ्चिदन्तरं कृत्वा मुहम्मदगजनीबादशाहस्य आक्रमणकालः / एतस्मिन् काले कथमिव अत्रत्यधर्माणां विनाशो भविष्यतीति सुविशदं समुल्लिखितं विमलप्रभायाम् / म्लेच्छाक्रमणेभ्यो धर्म परिरक्षितुं कथं कालचक्रतन्त्रस्य प्रचारः स्यादित्यपि कानिचिद् इतिहासदृशा महत्त्वपूर्णानि वृत्तानि टीकायां लिखितानि सन्ति / एतद्वृत्तानुरोधेन तन्त्रमिदं प्रायशो हिजरीवर्षस्य प्रारम्भकालस्य सम्यग् वर्णनं करोति / अस्मिन ग्रन्थे टोकायां च न केवलं 'मक्का'-प्रदेशस्य संकेतः, अपितु बगदादनगर्यां यथा युद्धमभूत्, तस्यापि संकेतो लभ्यते / उक्तं च विमलप्रभायाम्'तस्मिन् काले देवानां दानवानां म्लेच्छानां क्षितितलनिलयं वागदायां नगर्यां रौद्रं युद्धं भविष्यतीति / अथ च म्लेच्छाक्रमणैः बौद्धास्तदन्ये च संरक्षितास्तदैव स्युर्यदा कालचक्रानुरोधेन तेषां मतं जीवनं च स्यादिति। उक्तं यशोराज्ञा-'इह मयाऽस्मिन् कालचक्रभगवतो मण्डलगृहे प्रवेशः कर्तव्यो लौकिक-लोकोत्तराभिषेको दातव्यः' इति / (वि०प्र० उपोद्घातः, पृ० 27) / ___कालचक्रतन्त्रदेशनाया इतिहासदृष्ट्या यथा संगतिः अर्हत्वं च विवृतं भवति, तथैव तन्त्रस्यास्य के प्रवक्तार इत्यपि मूले टीकायां च निर्दिष्टं विद्यते / प्रवक्तृषु प्रथमतया आदिबुद्धः, ततो दशबलः, अनन्तरं मञ्जुश्रीः / परमादिबुद्धदेशितस्य दशबलेन अल्पतन्त्रतया व्याकरणम्, तदेव कलापग्रामे मञ्जश्रिया निगदितम्, तदेवेदं कालचक्रलघुतन्त्रं ख्यातम् / एतत्तन्त्रमधिकृत्य सुचन्द्रेण सर्वयानसाधारणी षष्टिसहस्रपरिमाणा विमलप्रभा विरचिता। अस्याष्टीकायाः पर्वतो वैशिष्ट्यं तस्य मूलतन्त्रानुसारिवज्रपदभेदकत्वमिति। उक्तं च लोकनाथेन पुण्डरीकेण स्वविमलप्रभायां यत् तेन सुगतव्याकृतस्यैव मञ्जुश्रीबोधितस्यैव तत्त्वजातस्य व्याख्यानं कृतम्। विमलप्रभाया वैशिष्टयं व्याकुर्वता तेनोक्तम् अस्मिन तन्त्र मया टीका सगतव्याकतेन वै। मञ्जुश्रीचोदितेनैव लोकनाथेन लिख्यते / / (वि० प्र०, पृ० 11) अस्य कालचक्रतन्त्रस्यावतारणे बुद्धबोधिसत्त्वयोमध्ये देशकाध्येषकसम्बन्धोऽविरोधेन सम्पन्नो भवति निर्माणसम्भोगकायैः / अत्र च निर्मितकायो वज्रपाणिः सुचन्द्रः ( xiv )