________________ तस्य को हि बुद्धभाव इत्यस्योत्तरं व्याहरता बुद्धो विगतमलं चित्तमिति मारश्च समलं चित्तमित्यभिहितम् / यश्च बाह्ये बुद्धस्य मारभङ्ग उच्यते, स सत्त्वानां स्वचित्तप्रतिभास एवेति समुदाजहें। इत्थं यथा शाक्यकुले मातृकुक्षिसम्भूतः सिद्धार्थः, तथैव शम्भलविषयेऽपि गर्भसम्भूतो वज्रपाणिः सुचन्द्रः / एतत्सकलदृष्टान्तदान्तिकव्याजेन कालचक्रतन्त्रं हि नितान्तं सुगम्भीरम्, तस्य महत्त्वं च न स्थानदृष्ट्या न वा गर्भजाताजातदृष्ट्य समाकलयितुं युज्यत इति गम्भीरं रहस्यं प्रकटीकृतम् / . इत्थं शास्त्रानुरोधेन सम्प्रदायपरम्परानुरोधेन च कालचक्रतन्त्रस्योद्गमः प्रस्तावितः / इतिहासदिशा चाप्येतस्योद्गमकालनिर्धारणं नैवातिदुष्करम् / यतो हि कालचक्रतन्त्रमले टोकायां चानेकानि साक्षिभतानि वत्तानि लिखितान्यपलभ्यन्ते, यद्वशात् कालनिर्धारणं सुशकम् / उपवणितं मूले टीकायां च इस्लामधर्मस्य प्रवर्तनम्, मुस्लिमयवनानां चार्यदेशे साक्षाद् दृष्टमिवाक्रमणम्, अविलम्बविगतमिव वा / तथा हि आद्याब्दात् षट्शताब्दैः प्रकटयशनृपः शम्भलाख्येऽभविष्यत्, तस्मान्नागैः शताब्दैः खलु मखविषये म्लेच्छधर्मप्रवृत्तिः / तस्मिन् काले धरण्यां स्फुटलघुकरणं मानवैर्वेदितव्यम्, सिद्धान्तानां विनाशः सकलभुवितले कालयोगेऽभविष्यत् // (पृ० 77) कालचक्रतन्त्रस्य एतच्छ्लोकानुरोधेन तट्टीकानुरोधेन च आद्यान्दो भगवतोबुद्धस्य धर्मदेशनाकालः, तस्मात् षट्शताब्दयनन्तरं सीतानद्युत्तरे शम्भलाख्ये देशे महायशा मञ्जुश्रीः प्रकटो भविष्यति / तस्माद् अष्टशताब्दयनन्तरे 'मख' इति नाम्ना वर्तमाने काले 'मक्का' इति ख्याते प्रदेशे म्लेच्छधर्मस्य इस्लामधर्मस्य प्रवर्तनं स्यात् / तस्मिन् काले ज्यौतिषसिद्धान्तानां ब्रह्म-सौर-यवनक-रोमकाणां चतुर्णामपि विनाशो भविष्यति / तस्मिंश्च काले बौद्धेतरतीथिकानां सिद्धान्ता निःशेषतां गमिष्यन्ति / किन्तु कालचक्रतन्त्रवशाद् बौद्धसिद्धान्तस्य विनाशो न स्यात् / तस्मिन् काले स्फुटलघुकरणं मानवैर्वेदितव्यम् इति तत्रोल्लिखितम् / स्फुटलघुकरणं स्फुटं कुर्वताऽने ज्योतिषे प्रतिषष्टिसंवत्सरं नवं नवं ध्रुवकं विधीयमानं भवति, तद्वशाच्च कालगणनां विधाय को हि म्लेच्छकाल इति निश्चेतुं पार्यते / उक्तं च तत्रैव , वह्नौ खेऽब्धौ विमिश्रं प्रभवमुखगतं म्लेच्छवर्ष प्रसिद्धम् ऊनं म्लेच्छेन्द्रवर्ष करफणिशशिना शेषमहितं च / इत्यादिना . इत्थं बुद्धस्य प्रवर्तनकालात् षट्शतवर्षपश्चाद् मञ्जुश्रीकालः। तदानी करणे ध्रुवः, तस्मादष्टशतवर्षपश्चाद् म्लेच्छकालः, तस्माद् द्वयशोत्यधिकशतेन (182) हीनोऽजकल्की कालः / अनेन च अजेन लघुकरणं विशोधितम् / इत्थं करफणिशशिना (182) शेषम् अर्का (१२)-हतं स्यात्, अथ च चैत्रादिमासैः अधरयुग(४)-हतम् / खाग्निचन्द्र (130). विभक्तं सद् लब्धं भूमिप्रविष्टं मासपिण्डं त्रिंशत्तिथिगणितार्थं भवति / म्लेच्छवर्षस्फुटीकरणार्थम् अन्यदप्येकं हस्तलिखितपुस्तकं लभ्यते कालचक्रानुसारिगणितमिति नाम्ना / एकमात्रं समुपलब्धायां तस्यां प्रतौ को हि म्लेच्छकाल इति लिखितम् / तस्य प्रथमपत्रम् ( xiii )