________________ तेन यन्निर्वाणपारार्थिनां जनानां कृते सुखपूर्वकं विघ्नौघस्य द्रुतलङ्घनाय शीघ्रगामिनी नौकेव प्रज्ञा, यस्या वाहकमिदं कालचक्रयानं नाम तन्त्रम् / अत एव बौद्धनयेषु परात्प- . रत्वं निर्धारयता कालचक्रतन्त्रप्रतिपाद्यं परमसुखपदं सर्वतः समत्कृष्टमिति तत्र प्रवेशो नितान्तं कष्टकर इत्युक्तं द्वितीयपटलमूले टीकायां च / परात्परत्वेऽयं क्रमः-बुद्धेऽनुरागः, ततः श्रावकप्रत्येकबुद्धयानयोः, ततो वज्रयाने हेतुफलात्मके, ततः क्वचिद् आलम्बनशून्यतायां निरालम्बकरुणात्मिकायां कालचक्रतन्त्रप्रतिपाद्यभूतायां महामुद्राख्यायां प्रवेशः / विमलप्रभानुरोधेन सीतानद्या उत्तरे भागे भगवता बुद्धेनेदं तन्त्रं समुपदिष्टम् / अस्य तन्त्रस्य यथा सम्यक् प्रामाण्यं संरक्षितं स्यात् तथा वज्रपाणिना नामसङ्गीति प्रमाणीकृत्य एतत्तन्त्रं संगृहीतम् / यतो हि नामसङ्गीतेः सर्वमन्त्रनये नोतार्थत्वं ख्यातम्, अतस्तदानुकूल्येन कालचक्रतन्त्रस्यापि प्रामाण्यं सुस्थिरम् | कालचक्रतन्त्रस्य वैशिष्टयं ख्यापयतोक्तं विमलप्रभायाम्-"ये परमादिबुद्धं न जानन्ति ते नामसङ्गोति न जानन्ति, ये नामसङ्गीति न जानन्ति ते वज्रधरज्ञानकायं न जानन्ति, ये वज्रधरज्ञानकायं न जानन्ति ते मन्त्रयानं न जानन्ति, ये मन्त्रयानं न जानन्ति ते संसारिणः सर्वे वज्रधरभगवतो मार्गरहिताः" (पृ० 52) / एवं परमादिबुद्धो मोक्षार्थिभिः सच्छिष्यैः श्रोतव्यः सद्गुरुणा चोपदेष्टव्यः / एतदनुरोधेन परमादिबुद्धः कालचक्रो भगवान् वज्रसत्त्वः।। ___ इदं कालचक्रतन्त्रं कुत्र प्रादुरभूदिति जिज्ञासायां श्रोधान्य कटकमेवेदम्प्रथमतया समुपस्थितं भवति, तद्धि मन्त्रयानस्योत्सभूमिः, तस्य मन्त्रयानस्योपजीव्यभूतमिदं कालचक्रतन्त्रं नाम / अतो हि यद्यपि सामान्येन श्रीधान्यकटकमेव कालचक्रस्यापि देशनाभूमिरिति सम्भावयितुं शक्यते, तथापि मन्त्रयाने कालचक्रस्य वैशिष्ट्यं तस्य देशमागाम्भीर्य ख्यापयति / एतद् रहस्यं विवरोतुमेव विशेषेणाधाराधेयसम्बन्धविधया ‘एवं' इत्यस्य प्राधान्येन व्याख्यानं कालचक्रे तन्त्रे समुपलभ्यते / तत्र 'ए'-कारो जडो गगनालोकः, तत्र 'व'-कारः काव्यव्यहो वज्रधृग् बुद्धः / तस्मिन् एकारसिंहासने स्थितो बुद्धी वंकारः कालचक्रस्य देशनां करोति। एतस्यातिगम्भीरतत्त्वस्य देशनास्थानस्य भौतिकदृष्ट्या निर्धारणं न तथा महत्त्वाधायकं यथा विनेयजनानां समुत्कृष्टाशयानामान्तर आधाराधेयभावनिर्देशः। एतादशानामेव विनेयानां मध्ये आन्तरं तावत् कालचक्रप्रवर्तनं नाम किश्चित् / तद्धि अनपेक्ष्य बाह्यस्थानवैशिष्ट्यं यत्र कुत्रापि व्याकृतमेतद् भवेत् / अत एव स्वीकृत्यापि श्रीधान्यकटकस्य भौतिकं महत्त्वं कालचक्रतन्त्रे विमलप्रभायां च परमादिबुद्धवज्रधातुमहामण्डले वज्रसिंहासने 'एकारे' स्थितो यो 'वंकारः', तेनैव कालचक्रतन्त्रप्रवर्तनं संकेतितम् / अत एव च बाह्याध्यात्मभेदेन स्थानस्यापि व्याख्यानं विमलप्रभायामुपलभ्यते / अत एवास्मिन् तन्त्रे संकेतितः शम्भलदेशः कलापग्रामः अडकवतीत्यभिधानेन पृथिव्यां भौतिकं स्थानं भवेन्न वेति नानिवार्यम् / इत्थमेवास्य कालचक्रस्य देशनाया यो हि याचकोऽध्येषकः सङ्गीतिकारकश्च, स कलापग्रामस्य स्वामिनः सूर्यप्रभस्य विजयादेवीगर्भसम्भूतः पुत्रः सुचन्द्रनामा राजा। एवंविधः कुत्रचिन्न दृश्यते कालचक्रतन्त्रं विहायान्यतन्त्रेषु, यो गर्भोत्पन्नः कश्चन स्यात् / एतदाक्षेपमपाक विमलप्रभायां शाक्यमुनेः शुद्धोदननरेन्द्रसुतस्य महामायादेवीगर्भसम्भूतस्यापि देशकत्वं सुचन्द्रेण समानमेवेति प्रतिबन्धुत्तरं प्रदाय राद्धान्ते यो हि देशको बुद्धः, ( xii )