________________ पुरोवाक् सुविदितमेवैतद् यद् बौद्धतन्त्राणां सामान्यतश्चतुर्धा विभागः क्रियते, तद्यथाक्रिया, चर्या, योगः, अनुत्तरयोगश्च / तत्रानुत्तरयोगस्तावत् सर्वेभ्यः श्रेष्ठयमावहति / अनुत्तरयोगं विहाय त्रयोऽप्यन्ये विभागा यद्यप्यल्पमहत्त्वा इव प्रतीयन्ते, तथापि ते अनुत्तरयोगभूम्यधिगतये सोपानभूता इवातो न कथञ्चिन्यूनमहत्त्वाः / अथ चानुत्तरायां स्थितौ त्रयोऽप्येते साहाय्यमाचरन्तोऽनुत्तरयोगाविनाभूता एवोपकारका भवन्तीति / - एतदपि सुविदितमेव यद् बौद्धतन्त्रसम्बद्धाः संस्कृत-ग्रन्था अनेकशताब्दीतः पूर्वमेव भारतवर्षतो विलोपमागताः / अतस्ते बहोः शतकान्नात्र समुपलभ्यन्ते / सौभाग्याद् भारतोपकण्ठे नेपालराष्ट्रे कतिपये बौद्धतन्त्रग्रन्थाः संस्कृतभाषायां समुपलभ्यन्ते / एतेषामन्वेषणं नाम सुमहत् कष्टसाध्यं कार्यम् / प्रायशः पञ्चाशद्वर्षतः पूर्वमेव वङ्गप्रदेशीयाः प्रातःस्मरणीया राजा-राजेन्द्रलालमित्र-महामहोपाध्यायहरप्रसादशास्त्रि-प्रबोधचन्द्रबागचीप्रमुखाः, अथ च महापण्डितराहुलसांकृत्यायनप्रभृतयोऽन्ये च विद्वांसोऽसकृन्नेपालं भोटदेशं च गत्वा ततोऽनेकान् दुर्लभान् महत्त्वपूर्णाश्च ग्रन्थान् समानीतवन्तः। विगतेषु दशाधिकवर्षेषु मयाऽपि वारचतुष्टयं नेपालयात्रां कृत्वाऽमुष्मिन् अन्वेषणकर्मणि कश्चन लघीयान् प्रयासोऽनुष्ठितः। तद्वशादद्य यावदनेकेऽनुपलब्धा अपरिचिताश्च ग्रन्थाः समुपलब्धाः / तेषु कालचक्रं नाम तन्त्रं प्राचीनं सुविशदं सर्वतन्त्राणामाकारभूमिरिवास्ते / एतस्य तन्त्रराजस्य टीकाऽपि बृहदाकारा विमलप्रभा नाम पूर्वमनुपलब्धवासीत् / पञ्चपटलात्मकमिदं मूलतन्त्रं तस्य टीकाऽपि विमलप्रभा पश्चपटलात्मिकैव / किन्तु न हस्तलिखितभाण्डागारेषु व्यक्तिगतसङ्ग्रहेषु वा काचिदेकाऽपि प्रतिः परिपूर्णा समुप लभ्यते / तत्र पञ्चमपटलस्य टोका तु नाद्य यावन्निःशेषा समुपलब्धा / मयाऽप्येतस्याः .. कतिपय एवांशाः समधिगताः। . श्रीलघुकालचक्रतन्त्रस्य विमलप्रभाटीकायाः कस्तावत् प्रवर्तनकाल इति मीमांसाप्रसङ्गे मूले टोकायां च यत्र तत्र प्रस्तूयमानं किञ्चिद् वृत्तं दृश्यते / टोकानुरोधेन परमादिबुद्धादेव प्रवचनमुपलभ्य दशबलेन खलु कालचक्रं नामेदं लघुतन्त्रं व्याकृतम् / तच्च तन्त्रं कलापदेशे पुनः मञ्जश्रिया निगदितम् / तत्र टोका च पूर्व राज्ञा सुचन्द्रेण लिखिता, या कलेवरेण षष्टिसाहस्रिकाऽऽसीत् / तामाधारीकृत्य पुण्डरीकेण कल्किना एषा द्वादशसाहस्रिका विरचिता / एषा च टीका सर्वेषां बौद्धतन्त्राणां सारसूचिकेव, अथ च सर्वतन्त्राणां यत् प्रतिपाद्यं वज्रपदं वज्रयानं वा तस्य भेदयित्री समस्ति / परम्परानुरोधेन एतट्टीकानुरोधेन वा वज्रयानं तावत् शास्त्रा बुद्धेनैव व्याकृतम् / वज्रसत्त्वा बोधिसत्त्वाश्चास्य वज्रयानस्य सङ्गीतिकारका अभवन् / एतस्मिन् विषयेऽस्ति येषां वैमत्यम्, तेषां कुबुद्धिनिवारणायापि टीकैषा पुण्डरीकेण विनिर्मिता / एतस्या वैशिष्टयं प्रकाशीकुर्वता कथितं