________________ 203 विमलप्रभायां [ अध्यात्म T313 ___ इह कर्मचक्रे द्वादशारे हस्तपादयोदशसन्धिषु प्रत्येकं त्रिंशन्नाड्यात्मकं चक्रम्; तेषु द्वादशचक्रेषु माघमासादित्रिंशत्तिथ्यधिदैवेषु कादयः षड्वर्गाः विसर्गादिषट्दीर्घमात्राभिन्नाः संहारक्रमेण दक्षिणहस्तपादषट्सन्धिषु पृथिव्यादिव्यञ्जनधर्मेण, तथाकाशादिव्यञ्जनधर्मेण सृष्टिक्रमेण प्रत्याहारपाठेन डादिना आकाशादिह्रस्वस्वरभेदभिन्ना वामहस्तपादयोः षट्सन्धिचक्रेषु षड्वर्गाः / तेभ्यो वर्गेभ्यः सस्वरेभ्यः क्रमति दिनकरः प्राणवायुमृत्युना सार्द्ध चायनं राशिभेदैरिति, अयनं प्रथममु[117b]त्तरायणं मकरादिकमाघमासादिकमिति, तदेवायनं दक्षिणवामभुजयोः षट्सन्धिचक्रेषु भ्रमति / तथा क्रियाचक्रे हस्ताङ्गुलीत्रिंशत्पर्वसन्धिषु चक्रषु षड्नाड्यात्मकेषु प्रत्येकैकाङ्गुली पर्वचक्रे कादिव्यञ्जनं षड्दीर्घमात्राभिन्नं दक्षिणकराङ्गुलीपर्वसन्धिचक्रेषु चरति, संहार10 क्रमेण; वामे सृष्टिक्रमेणाकाशादिव्यञ्जनमाकाशादिस्वरभिन्नम् / एवं दक्षिणायनं पादयोः षट्सन्धिचक्रेषु कर्माख्येष्विति अगुलीपर्वेषु क्रियाख्येष्विति / _ अत्र माघे मकरसंक्रान्ती तिथिभेदेन चन्द्रः, संक्रान्तिवारभेदेन सूर्यारोहणं / ' ज्ञेयम् / यत्र सूर्यो वर्धते, तत्र चन्द्रक्षयः; यत्र चन्द्रो वर्धते, तत्र सूर्यक्षय इति / एवं मकरादी' सूर्यवृद्धिः, मकरे दक्षिणस्कन्धबाहुसन्धिचक्रे त्रिंशन्नाडीषु त्रिंशत् कादयो दीर्घमात्राभिन्नाः। संज्ञामिणोऽघिदैवाः, प्राणमिण इति प्रथमनाड्यां क्काः। एवं सर्वपर्वेषु त्रिषु त्रिषु यथाक्रमं वर्णाः; तद्यथा-काः क्क्ल क्क क्कू क्की का इति प्रथमषड्नाडीषु; एवं दक्षिणाङ्गुष्ठपर्वाधःसन्धौ षड्नाडीषु क्रियाचक्रे / एवं ख्खाः लू ख्खू ख्खु ख्खी ख्खा इति कर्मचक्रे द्वितीयषड्नाडीषु क्रियाचक्रे तर्जन्यधःपर्वसन्धौ षड्नाडीषु / तथा ग्गाः ग्ल ग्गू गृ ग्गी ग्गा इति कर्मचक्रे 20 तृतीयषड्नाडोषु क्रियाचक्रे मध्यमाधःपर्वसन्धौ षड्नाडीषु / एवं 'ध्याः लू घ्घू घ्घ घी घ्या इति कर्मचक्रे चतुर्थ षड्नाडोषु, क्रियाचक्रे ऽनामिकाधःपर्वसन्धौ / षड्नाडीषु / एवं ङ्ङाः ल फू ङ ङ्ङी ङ्ङा इति कर्मचक्रे पञ्चमे षड्नाडीषु, क्रियाचक्रे कनिष्ठाधःपर्वसन्धौ षड्नाडोषु / एवं षड्भिः षड्भिदिनैः पृथिव्यादिकं मण्डलं सूर्यस्त्यजति / त्रिंशदिनैः पञ्चमण्डलानि त्यजति, ततो वामनाड्यां कुम्भे 25 संक्राति / तत्राकाशादिक्रमः / कवर्गः कर्मचक्रे क्रियाख्ये चेति / अत्र फाल्गुने कुम्भसंक्रान्तौ वामस्कन्धबाहुसन्धौ कर्मचक्रे त्रिंशन्नाडीषु डकारादीनि व्यञ्जनानि ह्रस्वाकाशादिस्वरभिन्नान्याकाशमण्डलादिना; तद्यथा-ङ ङि ङ ङ ङ्लू डं इति प्रथमषड्नाडोष्वाकाशा दिषण्मण्डललक्षणेषु कियाचक्रे वामकनिष्ठाधःपर्वसन्धौ षड्नाडोषु / एवं घ घि घृ घुघल 30 घं इति द्वितीयषड्नाडीषु वायुमण्डलस्वभावा स्वकर्मचक्र क्रियाचक्र अनामिकाधः पर्वसन्धौ षड्नाडीषु / एवं ग गि गृ गु ग्ल गं इति तृतीयाग्निमण्डलषड्नाडोषु 1. क. ख. मकारायः। 2. ग. पुस्तके नास्ति / 3. स. पुस्तके नास्ति / 4. ल. एवं गति /