________________ 201 पटले] अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देश' उत्तरायणे इति / ततो दक्षिणकटयुरुसन्धौ ज्ञानादिदीर्घषण्मात्राभिन्नः' पवर्गो दक्षिणे, वामे आकाशादिह्रस्वमात्राभिन्नः। एवं जानूरुसन्धौ दक्षिणे ज्ञानादिषण्मात्राभिन्नतवर्गः, वामे ह्रस्वाकाशादिमात्राभिन्नः / एवं दक्षिणपादजानुसन्धी ज्ञानादिदीर्घषण्मात्राभिन्नः सवर्गः, वामे ह्रस्वाकाशादिमात्राभिन्नो विलोमेनाकाशव्यञ्जनादिना / एवं प्रत्येकवर्गः त्रिंशदक्षरात्मा दीर्घह्रस्वभेदेन कर्मचक्र द्वादशचक्रेषु त्रिंशदारेष्विति / ततः क्रिया- 5 चक्रंषु प्रत्येक ककारादिव्यञ्जनं ज्ञानादिदीर्घषण्मात्राभिन्नम्; दक्षिणाङ्गुष्ठादिप्रत्येकसन्धिष्वङ्गुष्ठाधः पर्वसन्धौ षड्नाडिकात्मनि कव्यञ्जनं ज्ञानादिमात्राभिन्नम्; तर्जनीसन्धौ खकारः, मध्यमासन्धौ गकारः, अनामिकासन्धौ धकारः, कनिष्ठासन्धी डकारो ज्ञानादिदीर्घषण्मात्राभिन्न इति / वामकनिष्ठाधः पर्वसन्धौ ह्रस्वाकाशादिमात्राभिन्नो डकारः, अनामिकासन्धौ धकारः, मध्यमासन्धौ गकारः, तर्जनीसन्धी 10 खकारः, अङ्गुष्ठसन्धौ ककारः. ह्रस्वाकाशादिषण्मात्राभिन्नः इति / एवं दक्षिणे द्वितीयपर्वपंक्तो अङ्गष्ठादिके चवर्गः दीर्घस्वरभिन्नः, वामे ह्रस्वमात्राभिन्नः / एवं दक्षिणतृतीयपर्वपंक्तो दीर्घस्वरभिन्नः टवर्गः, वामे ह्रस्वमात्राभिन्न इति / एवं दक्षि[117a]णपादाङ्गलीपर्वेष दीर्घमात्राभिन्नः पवर्गः. वामे हस्वमात्राभिन्नः। दक्षिणमध्यपर्वेष दीर्घमात्राभिन्नस्तवर्गः, वामे ह्रस्वाकाशादिमात्राभिन्नः। दक्षिण-ऊर्ध्वपर्वसन्धिषु दीर्घ- 15 मात्राभिन्नः . सवर्गः, विलोमेनाकाशादिषण्मात्राभिन्नो वामाङ्गलीपर्वसन्धिष्विति प्रथमवर्षे, द्वितीये गुणवृद्धया भिन्नाः, तृतीये यणादेशादिभिभिन्नाः षड्वर्गा इति / अस्य विस्तारो वक्ष्यमाणे वक्तव्यमिति नेह प्रतन्यते / कण्ठे नक्षत्रनाडोस्त्यजति दिनदिने मासमध्ये क्रमेणेति / कण्ठचक्रे अष्टाविंशन्नक्षत्राणां नाड्यस्तांस्त्यजन्ति अष्टाविंशतिदिनैः स्वरात्मकैः / बिन्दुस्थं ललाटस्थं पक्षमध्ये 20 त्यजति शशिपदं चतुर्दशनाड्यात्मकं चतुर्दशदिनैश्चतुर्दशप्लुतस्वरैः / वारनाडी अष्टदिनैस्त्यजति विषयसत्त्वादिगुणैरिति गुह्यस्थस्त्रिशद्व्यञ्जनात्मिका नाड्यस्त्यजति कालमरण इति नाडीच्छेदनियमः। इदानी कर्मचक्रेषु सूर्यस्वभावेन प्राणस्य क्रमोत्क्रमच्छेदो वर्गसंज्ञाभिर्नाडीनामुच्यते वर्गम्य इत्यादिना वर्गेभ्यः सस्वरेभ्यः क्रमति दिनकरश्वायनं राशिभेदैः पश्चादेकोत्तरेणोत्क्रमति दिनदिने कालवर्ष हि यावत् / छिन्नेऽब्दे पक्षमध्ये स्वरदिवसवशाद् रोहणं च क्ष(क)मश्च निःश्वासोच्छ्वासहानिर्दिननिशिसमये जीवितस्यैकरात्रम् / / 68 // 1. क. ख. पुस्तकयोः 'षड्' इति नास्ति / 2. स. दीर्घः। 3. ग. पुस्तके 'षड्' इति नास्ति / 4. क. टकारः /