________________ 200 1312 15 विमलप्रभायां [ अध्यात्मत्रिंशत् नाडीस्त्रिवर्षंस्त्यजति, दक्षिणे पृथिव्यादिमण्डलवाहिनी त्यजति त्रिंशदिति / एवं त्रिंशत्रिंशत्पक्षः षष्टिः परित्यज्यन्ते(ज्यते) प्राणवायुनेति / सर्वत्र मण्डलनाडीषु त्यक्त्वा षष्ठांशम्, त्रिवर्षपक्षः पञ्चमण्डलवाहिनों त्यजति / सन्धावे. कैकनाडी त्यजति शिखिदिनैः कर्मचक्रे क्रियाख्ये चेति / इह शरीरे कमंचक्र हस्तयोः षट्सन्धिषु, पा(116a]दयोः षट्सन्धिषु, द्वादशभेदभिन्नं द्वादशचक्रात्मक द्वादशमासभेदतः। प्रत्येकसन्धिचक्रे त्रिंशन्नाड्यः, द्वादशसन्धिषु षष्टयुत्तरत्रिशतनाडयः, तेष दक्षिणस्कन्धबाहसन्धौ मकरे त्रिंशन्नाडयस्त्रिशततिथिभेदतः; वामस्कन्धबाहुसन्धौ फाल्गुने त्रिंशन्नाड्यस्त्रिशत्तिथिभेदतः। एवं दक्षिणोपबाहुसन्धौ चैत्रनाड्यः, वामोपबाहुसन्धौ वैशाखनाड्यः, दक्षिणकरोपबाहुसन्धी ज्येष्ठनाङ्यः, . 10 वामकरोपबाहुसन्धौ आषाढत्रिंशत्तिथिभेदेन त्रिंशन्नाम्य इति / हस्तयोः कर्मचके षट्प्रकारेऽशीत्युत्तरशतनाड्यः षट्सन्धिषु / ततो दक्षिणोरुकटिसन्धौ श्रावणमासतिथिभेदेन त्रिंशन्नाड्यः, वामोरुकटिसन्धौ भाद्रपत्रिंशन्नाड्यः। एवं दक्षिणोरुजानुसन्धी अश्विनत्रिंशन्नाड्यः, वामोरुजानुसन्धौ कार्तिकत्रिंशन्नाड्यः, दक्षिणपादजानुसन्धी मार्गशीर्षत्रिंशन्नाडयः, वामपादजानुसन्धौ पृष्यमासत्रिंशततिथिस्वभावेन त्रिंशन्नाडयः / एवं पादयोः षट्सन्धिषु कर्मचक्रे अशीत्युत्तरशतनाड्यः, कर्मचक्रं कर्मेन्द्रियक्रिया प्रवर्तनादिभूतमिति / एतासु नाडीषु शिखिदिनः प्रत्येकं त्रिभिस्त्रिभिदिनरारोहणात् / एभिस्त्रिवर्षदिनैरशीत्युत्तरसहस्रसंख्यैः षष्ट्युत्तरत्रिशतनास्त्यिजति प्राणवायुः / क्रियास्ये इति आदानगमनादिक्रियां करोतीति क्रियाख्यं हस्तपादाङ्गुलीपर्वसन्धिषु षष्टिषु थत्मा. (षड्ना)ड्यात्मकं चक्रं पृथिव्यप्तेजोवायुशून्यज्ञाननाडीस्वभावात्मकं प्रत्येकसन्धी स्थित 20 षड्नाड्यात्मकमिति / षष्टिपर्वसन्धिषु षष्टयुत्तरत्रिशतनाड्यः; तासु प्रत्येकनाडी त्रिभि खिभिदिनः परित्यजति यथा कर्मचक्रे / यदा दक्षिणकरोपबाहुसन्धौ त्रिंशन्नाडी त्यजति, तदा दक्षिणकरे ऊर्ध्वपञ्चाङ्गुलीषु षट्पट्नाडींस्त्यजति / एवं त्रिंशन्नाडी पञ्चाङ्गुलीषु त्यजति मासदिनैस्तिथिभिरिति / एवं वामे वेदितव्यम् / यदा दक्षिणबाहूपबाहुसन्धी त्यजति, तदाङ्गुलीमध्यपर्वसन्धिषु त्रिंशन्नाडी त्यजति / एवं वामेऽपि' / यदा दक्षि[116b]णस्कन्धबाहुसन्धौ त्यजति, तदाङ्गल्यधःपर्वसन्धिषु. त्रिंशन्नाडीस्त्रिंशद्दिनस्त्यजति नवतिदिनैः। एवं वामेऽपि ज्ञातव्यम् / यदा दक्षिणपादजानुसन्धी त्रिंशन्नाडीः त्यजति, तदा दक्षिणपादाङ्गुल्यर्द्धपर्वसन्धिषु त्रिंशन्नाडी त्रिंशद्दिनस्त्यजति / एवं वामेऽपि / यदा दक्षिणजानुसन्धौ त्यजति, तदाङ्गुलीमध्यपर्वसु त्रिंशन्नाडीस्त्यजति / एवं वामपदेऽपि ज्ञेयः / यदा दक्षिणकट्युरुसन्धौ त्यजति, तदा पादाङ्गुल्यधःपर्वसन्धिषु 3. त्रिंशन्नाडीः त्यजति / एवं वामेऽपि ज्ञेयः। इदानीं नाडीनामधिदैवाक्षराण्युच्यन्ते अत्र कवर्गो विलोमेनाकाशादिह्रस्वस्वरभिन्नो वामस्कन्धबाहुसन्धाविति / एवं दक्षिणस्कन्धबाहुसन्धौ ज्ञानादिदीर्घमात्राभिन्नः कवर्गः; वामे आकाशादिह्रस्वमात्राभिन्नश्चवर्गो बाहूपबाहुसन्धौ, ज्ञानादिदीर्घषण्मात्राभिन्नो दक्षिणे / वामे आकाशादिषण्मात्राभिन्नः टवर्गः करोपबाहुसन्धी, दक्षिणे ज्ञानादिमात्राभिन्नः / एवं षण्मासा 1. ख. वामे। 2. क. ख. ज्ञानमात्रानिः /