________________ पटले ] अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः शेलवाणं सप्तपञ्चाशद्दिनगणं त्यजति पञ्चमे' पत्रे'; अवशेष गृहीत्वा षष्ठे प्रविशति, पञ्चमं शून्यं भवति / पुनः षड्विंशत्यारोहणदिनः सार्द्ध अष्टाविंशतिदिनगणं त्यजति षष्ठे' पत्रे / ततः सप्तमे पत्रे प्रविशति, षष्ठं शून्यं भवति / ततः सप्तमे रोहणं सप्तविंशतिदिनगण त्यजतिः अवशेष षटत्रिंशददिनगणं गहीत्वा अष्टमे पत्रे प्रविशति. सप्तमं शन्यं भवति। ततोऽष्टमे पञ्चदशदिनं त्यजति; अवशेषमेकविंशदिनं गृहीतत्वा नवमे प्रवि- 5 शति, अष्टमं शून्यं भवति / ततो नवमे दशदिनं त्यजति; अवशेषमेकादशदिनं गृहीत्वा दशमे प्रविशति, नवमं शून्यं भवति / ततो दशमे पञ्चदिनं त्यजति; अवशेषं षड्दिन गृहीत्वा एकादशे प्रविशति, दशमं शून्यं भवति / तत्र दिनत्रयं त्यजति; अवशेष दिनत्रयं गृहीत्वा द्वादशमे प्रविशति, एकादशमं शून्यं भवति / तत्र दिनद्वयं त्यजति; अवशेषं दिनमेकंगहीत्वा णिकायां प्रविशति, द्वादशमं नाडीराशिपत्रं शन्यं भवति / एवमशीत्यतरसहस्रसंख्यैः सूर्यस्य मध्यमात्रिवर्षदिनैः प्राणशक्तिर्द्वादशारं राशिचक्रं त्यजति / ततः कणिकायां दिनमेकं मध्यमा(यां)" वहति / ततः श्वासचक्रं त्यक्त्वा विज्ञानं प्राणवायुना सार्द्धमन्यत्र षड्गतौ संक्रमणं करोति, इति सूर्यस्यारिष्टनियमः / . अत्र न्यासः - पूर्वन्यासवत् द्विपुटे वर्षभेदेन दिनत्यागभेदेनेति पूर्वपुटे अरिष्टदिनन्यासोऽपरपुटेऽवशेषायुर्दिनन्यासः / द्वितीयचक्रे दिनत्यागन्यासः, पूर्वपत्रेषु क्रमेण शून्य- 15 न्यास इति सूर्यारिष्टदक्षिणनाड्यां समलग्ने जातानां विषमलग्ने जातानां चन्द्रारिष्टमल्पायूनाम्, इति सूर्यारिष्टनियमः / इदानीं मध्यमारिष्टं कालाब्दक्रमेण सूर्यस्य यद् बालजनैस्तीथिकैरुक्तसत्त्वानां व्यामोहजनकं वर्षशतावधेस्तस्य प्रतिषेध उच्यते इह तीथिकैः किलोच्यते-दक्षिणनाड्यां पञ्चनाडीप्रवाहेण व[112b]र्षशतमायुः, 20 षष्ठनाडीप्रवाहेण नवतिवर्षाण्यायुः, सप्तनाडीप्रवाहेणाशीतिवर्षाण्यायुः, अष्टनाडीप्रवाहेण पञ्चाशद्वर्षाण्यायुः, नवनाडीप्रवाहेण त्रयस्त्रिशद् वर्षाण्यायुः, दशनाडीप्रवाहेण षड्विंशद्वर्षाण्यायुः, पञ्चदशनाडीप्रवाहेण चतुर्दशवर्षाण्यायुः, त्रिशन्नाडीप्रवाहेण द्वादशवर्षाण्यायुः, अहोरात्रप्रवाहेण दशवर्षाण्यायुः, द्विदिनप्रवाहेणाष्टवर्षाण्यायुः, त्रिदिनप्रवाहेण षड्वर्षाण्यायुः, चतुर्दिनप्रवाहेण पञ्चवर्षाण्यायुरिति; ततः पञ्चदिनप्रवाहेण त्रिवर्षाण्यायु- 25 रिति तीथिकानां नाडीश्वासनियमः दक्षिणमार्गे। स एव न घटते युक्त्या विचार्यमाणः सर्वज्ञोक्त्या / इह नराणामरिष्टाभावे वामदक्षिणनाड्यां पञ्च समेषु विषमेषु लग्नेषु पञ्च दण्डानि प्राणवायुर्वहति / वर्षशतायुषः पुरुषस्य प्राणस्य वामे सव्ये सप्तवर्षाणि श्वासवृद्धिरयनभेदेन, ततः षष्टिवर्षाणि पाणीपलवृद्धिरयनवृद्धिभेदेन, ततस्त्रिशद्वर्षाणि नाडीवृद्धिस्त्रिमासभेदेन, ततस्त्रिवर्षत्रिपक्षाणि 30 दिनभेदेन वृद्धिरिति कालवृद्धिन्यायः / अतो न्यायात् यस्याकालमरणं भवति गर्भोत्पादा 12. क. ख. भो. पुस्तकेषु नास्ति / 3-4. क. स. भो. पुस्तकेषु नास्ति / 5. भो. dBu mar (मध्यमायां ) / 6. भो. Sum Cu (त्रिंशत्) /